________________
१६०
गुरुतत्त्वसिद्धिः
एवं 'द्विविधे' अभ्युत्थान-वन्दनलक्षणे कृतिकर्मणि पूर्वं प्रतिषिध्य पश्चादनुज्ञाते सति 'व्याकुलिताः' आकुलीभूता वयम्, अत एव निरुद्धा-संशयक्रोडीकृता बुद्धिर्येषां ते निरुद्ध-बुद्धिकाः सञ्जाता वयम् । कुतः ? इत्याह-आदौ-प्रथमं प्रतिषिद्धं-'द्विविधमपि कृतिकर्म न वर्त्तते पार्श्वस्थादीनां कर्तुम्' आरोपणा च महती तत् कुर्वतो निर्दिष्टा; 'उवरिं'ति इदानीं पुनस्तेषां वन्दनकमप्रयच्छतो या चतुर्लघुकाख्या आरोपणा प्रतिपाद्यते सा 'गुपिला' गम्भीरा, नास्या भावार्थं वयमवबुध्यामहे इति भावः ।।४५४१।।
सूरिराह-उत्सर्गतो न कल्पते पार्श्वस्थादीन् वन्दितुम्, परम्गच्छपरिरक्खणट्ठा, अणागतं आउवायकुसलेण । एवं गणाधिवतिणा, सुहसीलगवेसणा कज्जा ।।४५४२।।
अवम-राजद्विष्टादिषु ग्लानत्वे वा यदशन-पानाद्युपग्रहकरणेन गच्छस्य परिपालनं तदर्थम् 'अनागतम्' अवमादिकारणे अनुत्पन्न एव 'आयोपायकुशलेन' आयो नाम-पार्श्वस्थादेः पार्थाद् निःप्रत्यूहसंयमपालनादिको लाभः उपायो नाम-तथा कथमपि करोति यथा तेषां वन्दनकमददान एव शरीरवार्ता गवेषयति; न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते प्रत्युत स्वचेतसि ते चिन्तयन्ति-अहो ! एते स्वयं तपस्विनोऽपि एवमस्मासु स्निह्यन्ति; तत एतयोरायोपाययोः कुशलेन गणाधिपतिना ‘एवं' वक्ष्यमाणप्रकारेण सुखशीलानांपार्श्वस्थादीनां गवेषणा कार्या ।।४५४२।।
तत्र येषु स्थानेषु कर्तव्या तानि दर्शयतिबाहिं आगमणपहे, उज्जाणे देउले सभाए वा । रच्छ उवस्सय बहिया, अंतो जयणा इमा होइ ॥४५४३।।
यत्र ते ग्राम-नगरादौ तिष्ठन्ति तस्य बहिः स्थितो यदा तान् पश्यति तदा निराबाधवार्ती गवेषयति । यदा वा ते भिक्षाचर्यादौ तत्रागच्छन्ति तदा तेषामागमनपथे स्थित्वा गवेषणं करोति । एवमुद्याने दृष्टानाम्, चैत्यवन्दननिमित्तं गतैर्देवकुले वा समवसरणे वा दृष्टानाम्, रथ्यायां वा भिक्षामटतामभिमुखागमने मिलितानां वार्ता गवेषणीया । कदाचित् ते पार्श्वस्थादयो ब्रवीरन्-अस्माकं प्रतिश्रयं कदाऽपि नागच्छत; ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपि गत्वा तत्रोपाश्रयस्य बहिः स्थित्वा सर्वमपि निराबाधतादिकं गवेषयितव्यम् । अथ गाढतरं निर्बन्धं ते कुर्वन्ति तत उपाश्रयस्य 'अन्तः' अभ्यन्तरतोऽपि प्रविश्य गवेषयतां साधूनाम् ‘इयं' वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति ।।४५४३।।
पुरुषविशेषं तावदाहमुक्कधुरा संपागडअक्किच्चे चरण-करणपरिहीणे । लिंगावसेसमित्ते, जं कीरइ तारिसं वोच्छं ॥४५४४।।
धूः-संयमधुरा सा मुक्ता-परित्यक्ता येन स मुक्तधुरः, सम्प्रकटानि-प्रवचनोपघात-निरपेक्षतया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स सम्प्रकटाकृत्यः, अत एव चरणेनव्रतादिना करणेन च-पिण्डविशुद्ध्यादिना परिहीनः, एतादृशे 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते 'यद्' यादृशं वन्दनं क्रियते तादृशमहं वक्ष्ये ।।४५४४।।
वायाएँ नमोक्कारो, हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वा वि ॥४५४५।।