________________
परिशिष्ट - १
दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे । जिणपन्नत्तं, भत्तीइ पूयए तं तहिं भावं । । १५९ ।। 'दंसण 'ति । व्याख्यातेयं प्रथमोल्लासे ।।१५९ ।। प्रथमोल्लासवर्तिनी टीका ईदृक् वर्तते ।
'दंसण'त्ति । दर्शनं च- निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च - आचारादिश्रुतं चारित्रं चमूलोत्तरगुणानुपालनात्मकं दर्शनज्ञानचारित्रम्, द्वन्द्वैकवद्भावः । एवं तपश्च- अनशनादि विनयश्चाभ्युत्थानादिस्तपोविनयम् । एतद्दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे 'यावद्' यत्परिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव 'भक्त्या' कृतिकर्मादिलक्षणया पूजयेदिति । । १२२ ।।
*
Co
(१६/१) पृ. ४५ पं. १५.
उप्पन्नकारणम्मी, कितिकम्मं जो न कुज्ज दुविहं पि ।
(१६ / २) पृ. ४५ पं. १५
पासत्थादीआणं, उग्घाता तस्स चत्तारि ।। ४६ ।।
‘उप्पन्ने’त्ति । उत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म 'द्विविधमपि' अभ्युत्थानवन्दनकरूपं पार्श्वस्थादीनां न कुर्यात्तस्य चत्वारः ‘उद्घाताः ' मासा भवन्ति, चतुर्लघुकमित्यर्थः ।। ४६ ।।
܀܀܀
(अत्र सप्रसङ्गं बृहत्कल्पसूत्रस्य गाथा अप्युपन्यस्यन्ते - ) अथ 'सीस'त्ति पदं प्रकारान्तरेण व्याचष्टे
१५९
(गुरुतत्त्वविनिश्चय उल्लास - ३)
(बृहत्कल्पसूत्र)
अहवा लिंग-विहाराओ पच्चुयं पणिवयत्तु सीसेणं ।
भणति रहे पंजलिओ, उज्जम भंते ! तव गुणेहिं ।।४५३९ ।।
अथवा लिङ्गाद् वा संविग्नविहाराद् वा प्रच्युतं स्वगुरुं रहसि शीर्षेण प्रणिपत्य 'प्राञ्जलिकः ' रचिताञ्जलिपुटो भति-भदन्त ! प्रसादं विधाय उद्यच्छ तपो-गुणेषु, अनशनादौ तपः- कर्मणि मूलगुणोत्तरगुणेषु च प्रयत्नं कुर्विति भावः । एवमादिके कारणे श्रेणिबाह्यानामपि 'कृतिकर्म' वन्दनकं कर्त्तव्यम् ।।४५३९ ।। अथ न करोति तत इदं प्रायश्चित्तम्
शिष्यः प्राह
दुविहे किइकम्मम्मिं, वाउलिया मो णिरुद्धबुद्धीया । आतिपडिसेहितम्मिं, उवरिं आरोवणा गुविला ।। ४५४१ ।।
उप्पन्नकारणम्मिं, कितिकम्मं जो न कुज्ज दुविहं पि ।
पासत्थादीयाणं, उग्घाया तस्स चत्तारि ॥। ४५४० ।।
उत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म 'द्विविधमपि' अभ्युत्थान- वन्दनकरूपं पार्श्वस्थादीनां न कुर्यात्
तस्य चत्वार उद्घाता मासा भवन्ति, चतुर्लघुकमित्यर्थः । । ४५४० ।।