________________
१५८
गुरुतत्त्वसिद्धिः
सुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाकरणयोरिति भावः ।।१५४।।
अथ तेषां कारणप्राप्तवन्दनाऽकरणे दोषमुपदर्शयतिएयाइं अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण हवइ पवयणभत्ती, अभत्तिमंतादओ दोसा ।।१५५।।
'एयाई 'ति । 'एतानि' वाग्नमस्कारादीनि पार्श्वस्थादीनां 'यथार्ह' यथायोग्यं अर्हद्दर्शने मार्ग स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्त्वभक्तिमत्त्वादयो दोषाः, प्राकृतशैल्याऽभक्त्यादय इत्यपरे, तत्राभक्तिः आज्ञाभङ्गात्, आदिना स्वार्थभ्रंशाभ्याख्यानबन्धनादिप्राप्तिपरिग्रहः ॥१५५॥
कानि पुनस्तेषां वन्दने कारणानि ? इत्याहपरिवार परिस पुरिसं, खित्तं कालं च आगमं गाउं । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ।।१५६।।
'परिवार'त्ति । परिवार पर्षदं पुरुष क्षेत्रं कालं चागमं ज्ञात्वा, तथा कारणानिकुलगणादिप्रयोजनानि तेषां जातः-प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद्वाचिकं कायिकं वा वन्दनमनुकलं तस्य तत कर्त्तव्यम् ॥१५६॥
अथ परिवारादीनि पदानि व्याचष्टेपरिवारो से सुविहिओ, परिसगओ साहए स वेरग्गं । माणी दारुणभावो, णिसंसपरिसाधमो परिसो ॥१५७।। लोगपगओ निवे वा, अहवण रायादिदिक्खिओ हुज्जा । खित्तं विहमाइ अभाविअं च कालो य अणुगालो ॥१५८।।
'परिवारो'त्ति । 'लोगपगओ'त्ति । 'से' तस्य पार्श्वस्थादेर्यः परिवारः सः ‘सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । पर्षदि गतो वा-सभायामुपविष्टः 'वैराग्यं' वेराग्यजनकमुपदेशं कथयति येन प्रभूताः प्राणिनः संसारविरक्तचेतसः संजायन्ते । अन्यत्र तु परिवारस्थाने पर्यायो गृह्यते ब्रह्मचर्यपर्यायो येन प्रभूतकालमनुभूत इत्यर्थः, पर्षच्च विनीता तत्प्रतिबद्धा साधुसंहतिर्गृह्यते । तथा कश्चित्पार्श्वस्थादिः स्वभावादेव 'मानी' साहङ्कारः, तथा 'दारुणभावः' रौद्राध्यवसायः, नृशंसो नाम-क्रूरकर्मा अवन्द्यमानो वधबन्यादिकं कारयतीत्यर्थः, अत एव पुरुषाणां मध्येऽधम एतादृशः पुरुष इह गृह्यते ।।१५७।।
यद्वा 'लोकप्रकृतः' बहुलोकसम्मतो नृपप्रकृतो वा-धर्मकथादिलब्धिसंपन्नतया राज्ञो बहुमतः । 'अहवण त्ति अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवत, एवंविधः परुष इह प्रतिपत्तव्यः । क्षेत्रं नामविहादिकमभावितं वा, विहं-कान्तारमादिशब्दात्प्रत्यनीकाद्युपद्रवयुक्तम्, तत्र वर्तमानानां साधूनामसावुपग्रहं करोति, अभावितं नाम संविग्नसाधुविषयश्रद्धाविकलं पार्श्वस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिविदधानः स्थातव्यम्, कालश्च अणुगालो' दुष्काल उच्यते, तत्र साधूनां वर्तापनं करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ॥१५८॥
आगमग्रहणेन च द्वारगाथायां दर्शनज्ञानादिको भावः सूचितोऽतस्तमगीकृत्य विधिमाह