________________
१५६
गुरुतत्त्वसिद्धिः मूलोत्तरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूश्चासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं-व्रतादिलक्षणं क्रियत इति करणं-पिण्ड-विशुद्ध्यादिलक्षणं चरणकरणाभ्यां प्रकर्षण भ्रष्टःअपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सम्प्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृतशैल्या अकारेकारयोर्दीर्घत्वम्, इत्थम्भूते 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति ?-कारणापेक्षं-कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये-अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचित्सम्प्रकटसेवी न भवत्यपि अतस्तद्ग्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ।।११२७ ।।
किं तक्रियत इत्यत आह - वायाइ नम्मोक्कारो हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वावि ।।११२८ ।।
व्याख्या- 'वायाए'त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते-हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कारो'त्ति नमस्कारः क्रियते-हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसा-उत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं'ति तत्सन्निधावासनं कञ्चित्कालमिति, एष तावबहि-दृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंदणं'ति आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ।।११२८॥
एताइं अकुव्वंतो जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती अभत्तिमंतादओ दोसा ।।११३०।।
व्याख्या-‘एतानि' वाङ्नमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमर्हद्दर्शिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह-'अभत्तिमंतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थः ।।११३०।।
(१५) पृ. ४३ पं. ६
(गुरुतत्त्वविनिश्चय उल्लास-३) तत्र पुरुषविशेषं तावदाहमुक्कधुरा संपागडअकिच्चे चरणकरणपरिहीणे । लिंगावसेसमित्ते, जं कीरइ तारिसं वुच्छं ।।१५०।।
'मुक्कधुर'त्ति । धूः-संयमथुरा सा मुक्ता-परित्यक्ता येन स मुक्तधुरः, संप्रकटानि-प्रवचनोपघातनिरपेक्षतया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स संप्रकटाकृत्यः, अत एव चरणेन-व्रतादिना करणेन-पिण्डविशुद्ध्यादिना परिहीनो य ईदृशस्तस्मिन् 'लिङ्गावशेषमात्रे'केवलद्रव्यलिङ्गयुक्ते 'यत्' यादृशं वन्दनं क्रियते तादृशमहं वक्ष्ये ॥१५०।।