________________
परिशिष्ट-१
१५५
उत्तरगुणानपि विनाशयति, उत्तरगुणानामपि विनाशो मूलगुणान् तस्माद् मूलगुणातिचारा उत्तरगुणातिचाराश्च जिनैः प्रतिक्रुष्टाः । अत्र चोदक आह-यदि मूलगुणानां नाशे उत्तरगुणानामपि नाश उत्तरगुणानां नाशे मूलगुणानामपि, तस्मात् ततः न खलु नैव मूलगुणाः सन्ति, नाप्युत्तरगुणाः, यस्मानास्ति स संयतो यो मूलगुणोत्तरगुणानामन्यतमं गुणं न प्रतिसेवते, अन्यतमगुणप्रतिसेवने च द्वयानामपि मूलोत्तरगुणानामभावः, तेषामभावे सामायिकादिसंयमाभावः, तदभावे बकुशादिनिर्ग्रन्थानामभावः, ततः प्राप्तं तीर्थमचारित्रमिति ॥४६६॥
अत्र सूरिराह - चोयग ! छक्कायाणं तु, संजमो जाऽणुधावए ताव । मूलगुणउत्तरगुणा, दोण्णिवि अणुधावते ताव ॥४६७।।
चोदक ! यावत् षड्जीवनिकायेषु संयमोऽनुधावति अनुगच्छति, प्रबन्धेन वर्तते तावद् मूलगुणा उत्तरगुणाश्च द्वयेप्येते अनुधावन्ति, प्रबन्धेन वर्तन्ते ।।४६७।।
(१३/२) पृ. ४१ पं. ११
(गुरुतत्त्वविनिश्चय उल्लास-१) अग्गग्घाओ मूलं, मूलग्घाओ अ अग्गयं हति । तम्हा खलु मूलगुणा, ण संति ण य उत्तरगुणा य ॥१०॥
'अग्गग्घातो'त्ति । यथा तालद्रुमस्याग्रे-मस्तकशूच्यां घातो मूलं हन्ति, मूलघातोऽपि चाग्रं हन्ति, एवं मूलगुणानां विनाश उत्तरगुणानपि नाशयति, उत्तरगुणानामपि विनाशो मूलगुणानिति द्वयेऽप्येते प्रतिक्रुष्टाः । प्रेरकः प्राह-तस्मात् खलु मूलगुणा न सन्ति उत्तरगुणाश्च न सन्ति, न ह्यस्ति स संयतो यो मूलोत्तरगुणानामन्यतमं न प्रतिसेवते, अन्यतमप्रतिसेवने चोभयाभावः, तदभावे च सामायिकादिसंयमाभावः, तदभावे बकुशादिनिर्ग्रन्थाभावः, ततश्चाचारित्रं तीर्थं प्राप्तमिति ।।१०।।
सूरिराहचोअग ! छक्कायाणं, तु संजमो जाऽणुधावए ताव । मूलगुण उत्तरगुणा, दोण्णि वि अणुधावए ताव ॥११॥
'चोयग'त्ति । हे चोदक । यावत् षड्जीवनिकायेषु संयमः ‘अनुधावति' प्रतिबन्धेन वर्त्तते तावन्मूलगुणा उत्तरगुणाश्च द्वयेऽप्येतेऽनुधावन्ति ।।११।।
(१४) पृ. ४३ पं. ६
(आवश्यकनियुक्ति) साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह - मुक्कधुरासंपागडसेवीचरणकरणपन्भटे । लिंगावसेसमित्ते जं कीरइ तं पुणो वोच्छं ।।११२७ ।। व्याख्या-धूः-संयमधूः परिगृह्यते, मुक्ता-परित्यक्ता धूर्येनेति समासः, सम्प्रकटं-प्रवचनोपघातनिरपेक्षमेव