________________
१५४
गुरुतत्त्वसिद्धिः
(१०) पृ. ३८ पं. २४
(द्वादशकुलक) ननु उक्तविशिष्टगुणाः सुविहिताः नोपलभ्यन्त एव तत् किंविषयोऽयं दानाद्युपदेश इत्यत आहकालाइदोसओ कहवि जइवि दीसंति तारिसा न जई। सव्वत्थ तहवि नत्थि त्ति नेव कुज्जा अणासासं ॥१३॥
कालः अवसर्पिणीरूपः, आदिशब्दाद् दुःषमादिसमस्तसन्निपातग्रहः, तेषां दोषोऽसत्प्रवृत्तिहेतुत्वलक्षणस्ततो यद्यपि 'कथमपि' केनापि प्रकारेण परीक्षापटुबुद्धिमान्द्यादिना न दृश्यन्ते तादृशा यथोक्तगुणा यतयः, तथापि सर्वत्रापि भारवर्षे न सन्तीति 'अनाश्वासो' भगवद्वचना-प्रतीतिलक्षणो न कार्यः, दुःप्रसभान्तस्य चरणस्य भगवता सिद्धान्तेऽभिधानादिति गाथार्थः ।।१३।।
(११) पृ. ३९ पं. २
(दर्शनशुद्धिप्रकरण)
यतः
कुग्गहकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विसुद्धचरित्तत्ति वुत्तमरिहंतसमयंमि ।।१७८।।
कुग्रहो-असदभिनिवेशः । स एव कलङ्को दोषस्तेन रहिताः । यथाशक्ति यथागमं च यतमानाः । येन कारणेन विशुद्धचारित्रा इत्युक्तमर्हत्समये जिनमते ।।१७८।।
(१२) पृ. ३९ पं. ४
(दर्शनशुद्धिप्रकरण) आगमोऽप्येवमेव व्यवस्थितस्तथाहिसमत्तनाणचरणाणुवाइमाणाणुगं च जं जत्थ । जिणपन्नत्तं भत्तीइ पूयए तं तहाभावं ।।१६८।।
सम्यक्त्वज्ञानचरणाऽनुपातिनं साक्षादागमाऽनुक्तमप्याज्ञानुगं जिनोक्तानुसारिणं यं भावं-गुणविशेष यत्र, 'पुरुषे पश्येद्' इति शेषः । शेषगुणाऽभावेऽपि तं जिनप्रज्ञप्तमिति मनसि कृत्वा । भक्त्या बहुमानतस्तथा तेन प्रकारेण गुणविशेषानुमानेन । पूजयेत् सत्कारयेदित्यर्थः ।।१६८।।
(१३/१) पृ. ४१ पं. ११
(व्यवहारसूत्र) तथा चात्र दृष्टान्तमाहअग्गग्घातो उ हणे मूलं, मूलघातो उ अग्गयं । तम्हा खलु मूलगुणा, न संति न य उत्तरगुणा य ॥४६६।। यथा तालद्रुमस्याग्रसूच्या घातो मूलं हन्ति मूलघातोपि चाग्रं हन्ति । एवं मूलगुणानां विनाश