________________
१४६
गुरुतत्त्वसिद्धिः भावुगअभावुगाणि य लोए दुविहाणि होति दव्वाणि । वेरुलिओ तत्थ मणी अभावुगो अन्नदव्वेहिं ।।१११५ ।।
व्याख्या-भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-कवेल्लुकादीनि, प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावुकानि, लषपतपदस्थाभूवृषेत्यादावुकञ् (पा. ३-२-१५४) तस्य ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च-नलादीनि लोके 'द्विविधानि' द्विप्रकाराणि भवन्ति 'द्रव्याणि' वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः ।।१११५।।
(३) पृ. १० पं. २०
(उपदेशमाला हेयोपादेया टीका) तथा चाह - पासत्थो १ सन २ कुसील ३ णीय ४ संसत्तजण ५ महाछंदं ६ । नाऊण तं सुविहिया, सव्वपयत्तेण वग्जिंति ।।३५३।।
(हेयो०) 'पासत्थो' गाहा, पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः आवश्यकादिष्ववसदनादवसत्रः, कुत्सितं शीलमस्येति कुशीलः, नित्यमेकत्र वासयोगान्नित्यः, परगुणदोषेषु संयोगात् संसक्तः, पार्श्वस्थश्चासाववसन्नश्चेत्यादिद्वन्द्वस्त एव जनस्तं तथा यथाच्छन्दं स्वाभिप्रायमागमनिरपेक्षतया प्रवर्तत इति यथाछन्दस्तं पृथक्करणमस्य गुरुतरदोषख्यापनार्थम्, ज्ञात्वा तं पार्श्वस्थादिजनं सुविहिताः साधवः सर्वप्रयत्नेन वर्जयन्ति तत्सङ्गमस्यानर्थहेतुत्वादिति ।।३५३।।
(३) पृ. १० पं. २०
(उपदेशमाला दोघट्टी टीका) तदेवाहपासत्थो १ सन्न २ कुसील ३ णीय ४ संसत्तजण ५ महाछंदं ६ । नाऊण तं सुविहिया, सव्वपयत्तेण वज्जिति ।।३५३।। "पासत्थो" गाहा । पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः । पासे नाणाईणं चिट्ठइ तब्भावमल्लियइ नेव । देसेण सव्वओ वा, विराहई एस पासत्थो ।।१।। आवश्यकादिष्ववसीदति स्म प्रमादाद्यः सोऽवसन्नः । आवस्सयाइयाई, न करे अहवाऽवि हीणमहियाइं । गुरुवयणवलाइ तहा, भणिओ एसो उ ओसत्रो ।।२।। 'वलाइ' त्ति व्याख्यातिगोणो जहा बलवंतो, भंजइ समिलं तु सो वि एमेव । गुरुवयणं अकरितो, वलाइ कुणई च उस्सोढुं ।।३।।