________________
परिशिष्ट-१
१४५
दद्रुण मुक्का, सो य चंपएहिं विणा धितिं न लभइ, तहावि ठाणदोसेण मुक्का । एवं चंपगमालत्थाणीया साहू अमेज्झत्थाणिया पासत्थादयो, जो विसुद्धो तेहिं समं मिलइ संवसइ वा सोऽवि परिहरणिज्जो ।।१११२।।
अधिकृतार्थप्रसाधनायैव दृष्टान्तान्तरमाहपक्कणकुले वसंतो सउणीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया मज्झि वसंता कुसीलाणं ।।१११३।।
व्याख्या-पक्कणकुलं-गर्हितं कुलं तस्मिन् पक्कणकुले वसन् सन्, पारङ्गतवानिति पारगः, शकुन्याः पारगः, असावपि 'गर्हितो भवति' निन्द्यो भवति, शकुनीशब्देन चतुर्दश विद्यास्थानानि परिगृह्यन्ते, 'अङ्गानि चतुरो वेदा, मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च, स्थानान्याहुश्चतुर्दश ।।१।।' तत्राङ्गानि षट्, तद्यथा- 'शिक्षा कल्पो व्याकरणं, छन्दो ज्योतिर्निरुक्तयः' इति, 'इय' एवं गर्हिताः ‘सुविहिताः' साधवो मध्ये वसन्तः 'कुशीलानां' पार्श्वस्थादीनाम् ।। अत्र कथानकम्-एगस्स धिज्जाइयस्स पंच पुत्ता सउणीपारगा, तत्थेगो मरुगो एगाए दासीए संपलग्गो, सा मज्जं पिबइ, इमो न पिबइ, तीए भण्णइ-जइ तुमं पिबसि तो णे सोभणा रत्ती होज्जा, इयरहा विसरिसो संजोगोत्ति, एवं सो बहुसो भणंतीए पाइत्तो, सो पढमं पच्छण्णं पिबइ, पच्छा पायडंपि पिबिउमाढत्तो, पच्छा अइपसंगेण मज्जमंसासी जाओ, पक्कणेहिं सह लोट्टेउमाढत्तो, तेहिं चेव सह पिबइ खाइ संवसइ य, पच्छा सो पितुणा सयणेण य सव्वबज्झो अप्पवेसो कओ, अण्णया सो पडिभग्गो, बितिओ से भाया सिणेहेण तं कुडिं पविसिऊण पुच्छइ देइ य से किंचि, सो पितुणा उवलंभिऊण णिच्छूढो, तइओ बाहिरपाडए ठिओ पुच्छइ विसज्जेइ से किंचि, सोवि णिच्छूढो, चउत्थो परंपरएण दवावेइ, सोवि णिच्छूढो, पंचमो गंधपि ण इच्छइ, तेण मरुगेण करणं चडिऊण सव्वस्स घरस्स सो सामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया, एस दिदंतो, उवणओ से इमोजारिसा पक्कणा तारिसा पासत्थाई जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते णिच्छूढा एवं णिच्छुब्भंति कुसीलसंसग्गिं करिता गरहिया य पवयणे भवंति, जो पुण परिहरइ सो पुज्जो साइयं अपज्जवसियं च णेव्वाणं पावइ, एवं संसग्गी विणासिया कुसीलेहिं । उक्तं च- 'जो जारिसेण मित्तिं करेइ अचिरेण(सो)तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधया होति ।।१।।' मरुएत्ति दिद्रुतो गओ, व्याख्यातं द्वारगाथाशकलम् ।।१११३।।
अधुना वैडूर्यपदव्याख्या, अस्य चायमभिसम्बन्धः-पार्श्वस्थादिसंसर्गदोषादवन्दनीयाः साधवोऽप्युक्ताः, अत्राह चोदकः-कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः ? तथा चाह
सुचिरंपि अच्छमाणो वेरुलिओ कायमणीयउम्मीसो । नोवेइ कायभावं पाहण्णगुणेण नियएणं ।।१११४।।
व्याख्या-'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् वैडूर्यः-मणिविशेषः, काचाश्च ते मणयश्च काचमणयः कुत्सिताः काचमणयः काचमणिकास्तैरुत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभावं' काचधर्मं 'प्राधान्यगुणेन' वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसनपि शीलगुणेनात्मीयेन न पार्श्वस्थादिभावमुपैति, अयं भावार्थ इति गाथार्थः ।।१११४।।
अत्राहाऽऽचार्यः-यत्किञ्चिदेतत्, न हि दृष्टान्तमात्रादेवाभिलषितार्थसिद्धिः संजायते, यतः