SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४ गुरुतत्त्वसिद्धिः (उत्सूत्रमाचरन् उत्सूत्रमेव प्रज्ञापयन् । एष तु यथाच्छन्द इच्छाछन्द इति एकार्थों ।।१।।) उस्सुत्तमणुवदिटुं सच्छंदविगप्पियं अणणुवाइ । परतत्तिपवत्ते तिंतिणे य इणमो अहाछंदो ।।२।। (उत्सूत्रमनुपदिष्टं स्वच्छन्दविकल्पितमननुपाति । परतप्तिं प्रवर्त्तयति ज्ञेयोऽयं यथाच्छन्दः ।।२।।) सच्छंदमइविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहि गारवेहिं मज्जइ तं जाणाही अहाछंदं ॥३॥' (स्वच्छन्दमतिविकल्पितं किञ्चित्सुखसातविकृतिप्रतिबद्धः । त्रिभिगौरवैर्माद्यति तं जानीहि यथाछन्दम् ।।३।।)। एते पार्श्वस्थादयोऽवन्दनीयाः, क्व ?-जिनमते, न तु लोक इति गाथार्थः । एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह जे बंभचेरभट्ठा पाए उडुति बंभयारीणं । ते होंति कुंटमंटा बोही य सुदुल्लहा तेसिं ।।१११०।। व्याख्या-ये-पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथौघतः संयमवाचकश्च, 'पाए उडुंति बंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्दननिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति तदाऽपि भवन्ति कोंटमण्टाः ‘बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषां, सकृत्प्राप्तौ सत्यामप्यनन्तसंसारित्वादिति गाथार्थः ।।१११०।। (२) पृ. १० पं. १७ (आवश्यकनियुक्ति) एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीयाः, किमित्यत आह असुइट्ठाणे पडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तह अपुज्जा ।।१११२।। व्याख्या-यथा 'अशुचिस्थाने' विट्प्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान क्रियते शिरसि, पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा 'अपूज्याः' अवन्दनीयाः, पार्श्वस्थादीनां स्थानानि-वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते यत्संसर्गात्पार्श्वस्थादयो भवन्ति, न चैतानि सुष्टु घटन्ते, तेषामपि तद्भावापत्तेः, चम्पकमालोदाहरणोपनयस्य च सम्यगघटमानत्वादिति । अत्र कथानकं-एगो चंपकप्पिओ कुमारो चंपगमालाए सिरे कयाए आसगओ वच्चइ, आसेण उद्भूयस्स सा चंपगमाला अमेज्झे पडिया, गिण्हामित्ति अमिज्झं
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy