SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ૧૩૫૪ प्रतिभाशतs|Acts:१ टी :___ वाग्व्यवहारतो मिश्रपक्षस्य निश्चयतश्च धर्मत्वस्य सूत्रकृते हि पक्षत्रयव्याख्यानावसरे - ‘अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु नाणापन्नाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीयं नाणारूईणं नाणारंभाणं नाणाज्झवसायसंजुत्ताणं नाणाविहपावसुअज्झयणं एवं भवइ, तं० भोमं उप्पायं इत्यादिना पापश्रुताध्यनेनानाद्यर्थं तत्प्रयोगेण वा सुरकिल्बिषादिभावनया तल्लोकोत्पादेन ततश्च्युतस्यैडमूकादिभावोत्पादेन, गृहिणां चात्मस्वजनाद्यर्थं चतुर्दशभिरसदनुष्ठानैस्तथाहि - कश्चिदकार्याध्यवसायेनानुगच्छतीत्यनुगामुको भवति, तं गच्छन्तमनुगच्छतीत्यर्थः ।।१।। अथवा तस्यापकारावसरापेक्ष्युपचारको भवति, ।।२।। अथवा तस्य प्रतिपथिको भवति-प्रतिपथं सम्मुखीनमागच्छति ।।३॥ अथवा स्वजनाद्यर्थं सन्धिच्छेदको भवति-खात्रखननादिकर्ता भवतीत्यर्थः ।।४।। अथवा घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्यते ।।५।। अथवौरभैर्मेषैश्चरतीत्यौरभ्रिकः ।।६।। अथवा शौकरिको भवति ।।७।। अथवा शकुनिभिश्चरति शाकुनिकः ।।८।। अथवा वागुरया मृगादिबन्धनरज्ज्वाचरति वागुरिकः ।।९।। अथवा मत्स्यैश्चरति मात्स्यिकः ।।१०।। अथवा गोपालकभावं प्रतिपद्यते ।।११।। अथवा गोघातकः स्यात् ।।१२।। अथवा श्वभिश्चरति शौवनिकः शुनां परिपालको भवतीत्यर्थः ।।१३।। अथवा 'सोवणियंतियभावं' ति श्वभिः पापद्धिं कुर्वन् मृगादीनामन्तं करोतीत्यर्थः ।।१४।। इति, अत्यसहनतया सापराधगृहपतिक्षेत्रदाहादिना तत्संबन्ध्युष्ट्राद्यङ्गच्छेदादिना तच्छालादाहादिना तत्संबन्धिकुण्डलाद्यपहारेण, वा पाखण्डिकोपरि क्रोधेन तदुपकरणापहारतद्दाननिषेधादिना, निर्निमित्तमेव गृहपतिक्षेत्रदाहादिना आभिग्रहिकमिथ्यादृष्टितयापशकुनधिया श्रमणानां दर्शनपथापसरणेन तदृष्टावसरास्फालनेन चप्पुटिकादानेनेत्यर्थः परुषवचःप्रहारैः परेषां शोकाद्युत्पादनादिना महारम्भादिना भोगोपभोगैर्भवाश्लाघया चैश्वर्यानुभवनेन महातृष्णावतामधर्मपक्ष उक्त उपसंहतश्च,
SR No.022185
Book TitlePratima Shatak Part 04
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages432
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy