________________
५८
प्रतिभाशत नाग-3 | -48 अभ्युत्थिते वन्दनकप्रतीच्छनादिकं प्रति कृताभ्युपगमे प्रतिक्रान्तो भूयात् । असति-अविद्यमानेऽभ्युत्थाने पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोचनीयम्, पश्चात्कृतस्येत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । 'अन्नत्य तत्थेव त्ति यदि पार्श्वस्थादिरभ्युत्तिष्ठति तदा प्रवचनलाघवभिया तेनाऽन्यत्र गत्वाऽऽपन्नप्रायश्चित्तं शुद्धतपो वा वहनीयम्, मासादिकमुत्कर्षतः षण्मासान्तं यदि वा परिहारतपः । अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्तं दत्तम्, ततश्च तत्रैव तपो वहति । एतदेव व्याचष्टे - "असतीए लिंगकरणं सामाइअ इतरं च कितिकम्मं । तत्थेव य सुद्धतवो गवेसणा जाव सुहदुक्खे" ।। असति-अविद्यमाने, पश्चात्कृतस्याभ्युत्थाने, गृहस्थत्वाल्लिङ्गकरणं इत्वरकालं लिङ्गसमर्पणम् तथा इत्वरम् इत्वरकालं सामायिकमारोपणीयम्, ततस्तस्यापि निषद्यामारचय्य कृतिकर्म वन्दनकं कृत्वा तत्पुरत आलोचयितव्यं तदेवमसतीति व्याख्यातम् । अधुना तत्रैवेति व्याख्यायते-पार्श्वस्थादिको नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं ततस्तत्रैव स तच्छुद्धं तपो वहति । यावत्तपो वहति तावत्तस्यालोचनाप्रदायिनः सुखदुःखे गवेषयति सर्वमुदन्तं वहतीत्यर्थः । पश्चात्कृतविधिमाह-"लिंगकरण णिसेज्जा कितिकम्ममणिच्छतो पणामो अ । एमेव देवयाए णवरं सामाइयं मोत्तुं" ।। पश्चात्कृतस्येत्वरकालसामायिकारोपणपुरस्सरमित्वरकालं लिङ्गकरणं रजोहरणसमर्पणम्, तदनन्तरं निषद्याकरणम्, ततः कृतिकर्म वन्दनकं दातव्यम् । अथ स वन्दनकं नेच्छति ततस्तस्य प्रणामो=वाचा कायेन च प्रणाममात्रं कर्त्तव्यम् । पार्श्वस्थादेरपि कृतिकर्म वन्दनकं दातव्यम् । (अथ स वन्दनकं नेच्छति ततस्तस्य प्रणामो वाचा कायेन च प्रणाममात्रं कर्त्तव्यम्) पार्श्वस्थादेरपि कृतिकर्मानिच्छायां प्रणामः कर्त्तव्यः । एवमेव=अनेनैव प्रकारेण, देवताया अपि सम्यग्भावितायाः पुरत आलोचयति नवरं सामायिकारोपणं लिङ्गसमर्पणं च न कर्त्तव्यमविरतत्वेन तस्यास्तद्योग्यताया अभावात् । यदुक्तं गवेषणा जाव सुहदुक्खे-तद् व्याख्यानयति-"आहारउवहिसज्जाएसणमाइसु होइ जइअव्वं । अणुमोयणकारावण सिक्ख त्ति पयम्मि तो सुद्धो" ।। आहारः पिण्डः, उपधिः पात्रनिर्योगादिः, शय्या वसतिः, एषणाशब्दः प्रत्येकमभिसम्बध्यते आहाराद्येषणात्रये, आदिना तद्विनयवैयावृत्त्यादिषु च भवति तेन यतितव्यमनुमोदनेन कारापणेन च, किमुक्तं भवति ? यदि तस्यालोचनार्हस्य कश्चिदाहारादीनुत्पादयति ततस्तस्यानुमोदनाकरणतः प्रोत्साहने यतते । अथान्यः कश्चिन्नोत्पादयति ततः स्वयमालोचक आहारादीन् शुद्धानुत्पादयति, अथ शुद्धं नोत्पाद्यते ततः श्राद्धान् प्रोत्साह्याकल्पिकानप्याहारादीन् यतनयोत्पादयतीति । अथाकल्पिकाहारादीनुत्पादयतस्तस्य मलीनतोपजायते, अथ च स शुद्धिकरणार्थं तदन्तिकमागतस्ततः परस्परविरोधः । अत्राह- "सिक्खत्ति पयम्मि तो सुद्धो” यद्यपि नाम तस्यालोचनार्हस्यार्थायाकल्पिकानाप्याहारा-दीनुत्पादयति तथाप्यासेवनाशिक्षा तस्यान्तिके क्रियत इति द्वितीयपदेऽपवादपदे वर्तमानः शुद्धः एव । इदमेव भावयति-"चोयइ से परिवारं अकरेमाणे भणेइ वा सड्ढे । अव्वुच्छित्तिकरस्स उ सुयभत्तीए कुणह पूर्य" ।। प्रथमं स तस्यालोचनार्हस्य परिवारं वैयावृत्त्यादिकमकुर्वन्तं चोदयति=शिक्षयति तथा ‘ग्रहणासेवनशिक्षानिष्णात एषः, तत एतस्य विनयवैयावृत्त्यादिकं क्रियमाणं महानिर्जराहेतुरिति ।' एवमपि शिक्ष्यमाणो यदि न करोति ततस्तस्मिन्नकुर्वाणे स्वयमाहारादीनुत्पादयति । अथ स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते ततः श्राद्धान् भणति प्रज्ञापयति, प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया