________________
प्रतिभाशत नाग-3|20ोs-१४
५७
इति ऋणमोक्षः कृतः । “सुत्तत्थतदुभयविउ उज्जुत्तो नाणदंसणचरित्ते । णिप्फायगसीसाणं एरिसया हुंति उवज्झाया ।" एतेषां सूत्रवाचनादाने गुणानुपदर्शयति “सुत्तत्थेसु थिरतं रिणमोक्खो आयती अपडिबन्यो । पाडिच्छे मोहजओ तम्हा वाएइ उवज्झाओ" । उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति, सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते तथाऽन्यस्य सूत्रवाचनाप्रदाने सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति तथाऽऽयत्यामाचार्यपदाध्यासेऽप्रतिबन्धः, अनुवर्त्तनं दृढाभ्यासात्तथा सूत्रस्य स्यात् । ‘पाडिच्छे'त्ति प्रतीच्छका गच्छान्तरादागत्य सूत्रोपसम्पदं प्रतिद्यमाना, अनुगृह्येरनिति शेषः । तथा मोहजयः कृतो भवति, सूत्रवाचनादानमग्नस्य प्रायश्चित्तविस्रोतसिकाया अभावात्, अतः सूत्रं वाचयेदुपाध्यायः । “तवणियमविणयगुणणिहि पवत्तया नाणदंसणचरित्ते । संगहुवग्गहकुसला पवत्ति एयारिसा हुंति" । सङ्ग्रहः शिष्याणां सङ्ग्रहणमुपग्रहस्तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणम्-“संजमतवजोगेसु जो जोग्गो तत्थ तं पयट्टेइ । असहुं च णियंतती गणतत्तिल्लो पवित्तीओ" । तथा च यथोचितं प्रशस्तयोगेषु साधून् प्रवर्तयन्तीत्येवंशीलाः प्रवर्तिन इति व्युत्पत्त्यर्थोऽनुगृहीतो भवति । “संविग्गो मद्दविओ पियधम्मो नाणदंसणचरित्ते । जे अट्ठे परिहायइ सारेतो तो हवइ थेरो" ।। त्ति । यो यानर्थान् परिहापयति, तांस्तं स्मारयन् भवति स्थविरः स्थिरीकरोति (इति) स्थविर इति व्युत्पत्तेः तथा चाह-"थिरंकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीयइ जई संतबलो तं पचोएइ" ।। प्रचोदयति प्रकर्षण शिक्षयति । “उद्धावणापहावणखेत्तोवहिमग्गणासु अविसादी । सुत्तत्थतदुभयविऊ गीअत्था एरिसा हुंति" । उत्=प्राबल्येन, धावनमुद्धावनम् गच्छकार्यकरणाभ्युपगमः स्त्रीत्वं प्राकृतत्वात् । शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनम्, क्षेत्रमार्गणा=क्षेत्रप्रत्युपेक्षणा, उपधिमार्गणा-उपध्युत्पादना, एतास्वविषादिनः सूत्रार्थतदुभयविद एतादृशा गीतार्था गणावच्छेदिनो भवन्ति । एवंविधपञ्चकविरहिते गच्छे चेत्प्रायश्चित्तमापन्नः साधुः कारणेन तदा निजाचार्यादीनामन्तिके आलोचनामलभमानः सूत्रोक्तरीत्या परम्परमन्यसाम्भोगिकादिकं तावद् व्रजति यावत् सिद्धान् गच्छति । तत्राचार्याद्यभावे उपाध्यायादिराश्रयणीयः क्रमोल्लङ्घने चतुर्लघु । अथाग्रे सूत्रव्याख्या-यदि पुनरात्मन आचार्योपाध्यायान्न पश्येदभावाद् दूरव्यवधानतो वा ततो यत्रैव सांभोगिकं साधर्मिकं विशिष्टसामाचारीनिष्पन्नम्, बहुश्रुतं छेदग्रन्थादिकुशलम्, उद्भ्रामकं उद्यतविहारिणं, पाठान्तरे- बह्वागममर्थतः प्रभूतागमं, पश्येत् तस्यान्तिके आलोचयेत् । अत्रापि यावत्करणात् 'पडिक्कम्मेज्ज' इत्यादिपदकदम्बकपरिग्रहः यदि पुनस्तस्य भावेऽन्यसकाशे आलोचयति तदा चतुर्लघु, तस्याप्यभावेऽसाम्भोगिकसाधर्मिकबहुश्रुतसंविग्न-स्यान्तिके, तस्याप्यभावे सारूपिकस्य बहुश्रुतस्यान्तिके । तस्याप्यभावे पश्चात्कृतस्य गीतार्थस्य । अत्रायं विधिः-“संविग्गे गीयत्थे सरूविपच्छाकडे य गीयत्थे । पडिक्कंते अब्भुठिय, असती अनत्थ तत्थेव ।" संविग्नेऽन्यसांभोगिकलक्षणेऽसति अविद्यमाने, पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम्, तस्मिन्नपि गीतार्थे पार्श्वस्थेऽसति सारूपिकस्य वक्ष्यमाणस्वरूपस्य गीतार्थस्य समीपे, तस्मिन्नपि सारूपिकेऽसति पश्चात्कृतस्य गीतार्थस्य समीपे आलोचयितव्यमेतेषां च मध्ये यस्य पुरत आलोचनादातुमिष्यते तमभ्युत्थाप्य तदनन्तरं तस्य पुरत आलोचयितव्यम् । अभ्युत्थापनं नाम वन्दनकप्रतीच्छन्नादिकं प्रत्यभ्युपगमकारापणा, तदाह