SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 49 प्रतिभाशलङ भाग-3 / श्लोड-५४ वा करयलपरिग्गहियंसिरसावत्तं मत्थए अंजलि कट्टु एवं वएज्जा - “ एवइया मे अवराहा, एवइखुत्तो अहं अवरद्धो” अरिहंताणं सिद्धाणं अन्तिए आलोएज्जा जाव पडिवज्जिज्जासि त्ति बेमि ( उ १. सू. ३३) । अस्वार्थलेशो यथा भिक्षुरन्यतरदकृत्यस्थानं सेवित्वा इच्छेदालोचयितुं स चालोचयितुमिच्छुः यत्रैवात्मन आचार्योपाध्यायान् पश्येत्, तत्रैव गत्वा तेषामन्तिके= समीपे, आलोचयेत्=अतिचारजातं वचसा प्रकटीकुर्यात् । प्रतिक्रामेत्=तद्विषये मिथ्यादुष्कृतं दद्यात् । यावत्करणात् - निंदेज्जा गरहेज्जा, विउट्टेज्जा विसोहेज्जा, अकरणयाए अब्भुट्ठेज्जा, अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा' इति परिग्रहः । तत्र निन्द्यात्-आत्मसाक्षिकं जुगुप्सेत् । गर्हेत्-गुरुसाक्षिकम् । इह निन्दनगर्हणमपि तात्त्विकं तदा भवति यदा तत्करणतः प्रतिनिवर्त्तते । तत आह-‘विउट्टेज्जा' इति, तस्मादकृत्यप्रतिसेवना- द्व्यावर्त्तेत= निवर्त्तेत, व्यावृत्तावपि कृतात्पापात्तदा विमुच्यते, यदाऽऽत्मनो विशोधिर्भवति, तत आह- आत्मानं विशोधयेत् पापमलस्फेटनतो निर्मलीकुर्यात् सा च विशुद्धिरपुनःकरणतायामुपपद्यते, ततस्तामेवापुनः करणतामाह - अकरणतया पुनरभ्युत्तिष्ठेत्, पुनरकरणतया अभ्युत्थानेऽपि विशुद्धिः प्रायश्चित्तप्रत्तिपत्त्या भवति, तत आह-यथार्हं = यथायोग्यं तपःकर्म, तपोग्रहणमुपलक्षणं छेदादिकं प्रायश्चित्तं प्रतिपद्येत । यदि पुनरात्मीयेष्वाचार्योपाध्यायेषु सत्स्वन्येषामन्तिके आलोचयति, ततः प्रायश्चित्तं तस्य चतुर्गुरु आह । ननु पूर्वमेकाकिविहारे दोषाः प्रतिपादितास्तदनन्तरं पार्श्वस्थादिविहारोऽपि निषिद्धस्ततो नियमाद् गच्छे वस्तव्यमिति नियमितम् एवं च नियमिते कथमेकाकी जातो येनोच्यते यत्रैवात्मन आचार्योपाध्यायान् पश्येत्तत्रैव गत्वा तेषामन्तिके आलोचयेदिति । अत्रोच्यते अशिवादिकारणे एकाकित्वभावे कारणिकमिदं सूत्रमित्यदोषः कारणाभावे तु पञ्चाऽन्यतराभाववति वासे सशल्यस्य जीवनाशे चारित्रगात्रनाशतः शुभगतिविनाश एव । न चालोचनापरिणतोऽसंपत्तावपि शुद्ध इत्यनेन विरोधः सूत्रप्रामाण्ये निगूहितशक्तेः परिणामस्याप्रामाण्यात् । आह च ' एवं होइ विरोहो आलोअणपरिणओ शुद्धो अ एगंतेण पमाणं परिणामोवि न खलु अम्हं ति ।। " तथा " तत्थ न कप्पइ वासो गुणागरा जत्थ नत्थि पंच इमे । आयरियउवज्झाए पवत्तिथेरे य गीयत्थे ।। सुत्तत्थतदुभएहिं उवउत्ता नाणदंसणचरिते । गणतत्तिविप्पमुक्का एरिसया हुंति आयरिया ।।” गणस्य तप्तिश्चिन्ता तया विप्रमुक्ताः गणावच्छेदिप्रभृतीनां तत्तप्तेः समर्पितत्वात् । उपलक्षणमेतत्, शुभलक्षणोपेताश्च ये एतादृशास्ते भवन्त्याचार्याः, ते चार्थमेव भाषन्ते न सूत्रम्, तत्र कारणानि -“एगग्गया य झाणे वुड्ढी तित्थयर अणुगिई गुरुआ । आणाथेज्जमिति गुरुकयरिणमुक्खो ण वाएइ ।।" एकाग्रता ध्यानेऽर्थचिन्तनात्मके सूत्रस्यापि वाचने बहुव्ययत्वात् सा न स्यात् । एकाग्रतायां को गुणोऽत आह-वृद्धिः सूक्ष्मार्थोन्मीलनादर्थस्य स्यात्, तथा तीर्थकृतामनुकृतिः ते हि केवलमर्थं भाषन्ते, गणतप्तिं च न कुर्वन्ति एवमाचार्या अपि तथावर्त्तमानास्तीर्थकरानुकारिणो भवन्ति, अधस्तनपदवर्त्तिभिरप्यधिकृतायाः सूत्रवाचनाया दाने तु लाघवं स्याद् एवं च तेषां तथावर्त्तमानानां लोके राज्ञ इव महती गुरुता स्यात्, तथा च प्रवचनप्रभावना, तथाज्ञायां स्थैर्यं कृतं भवति, इयं हि तीर्थकृतामाज्ञा 'यथोक्तप्रकारेण ममानुकारिणाचार्येण भवितव्यमिति । तत एतस्माद्धेतुकलापात्कृतऋणमोक्ष इति च सूत्रं न वाचयत्याचार्यः, सामान्यावस्थायामनेके साधवः सूत्रमध्यापिता -
SR No.022184
Book TitlePratima Shatak Part 03
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages450
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy