________________
3८४
प्रतिभाशts|rels:३० प्रमादे सति कायदुष्प्रयोगभावतः पृथिव्यादेरुपमर्दसम्भवात् । 'अपि' शब्दोऽन्येषामध-स्तनगुणस्थानवर्तिनां नियमप्रदर्शनार्थः, प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति, किं पुनः शेषानां देशविरतिप्रभृतीनामिति । एवमुत्तरत्रापि यथायोगमपिशब्दभावना कर्त्तव्या । पारिग्रहिकी संयतासंयतस्यापि देशविरतस्यापीत्यर्थः तस्यापि परिग्रहधारणात् । मायाप्रत्यया अप्रमत्तसंयतस्यापि । कथम् ? इति चेत् ? उच्यते-प्रवचनोड्डाहप्रच्छादनार्थं वल्लीकरणसमुद्देशादिषु । अप्रत्याख्यानक्रिया अन्यतरस्यापि अप्रत्याख्यानिनः, अन्यतरदपि न किञ्चिदित्यर्थः, यो न प्रत्याख्याति तस्येति भावः । मिथ्यादर्शनक्रिया-ऽन्यतरस्यापि सूत्रोक्तमेकमप्यक्षरमरोचमानस्येत्यर्थः मिथ्यादृष्टेर्भवति । 'नेरइयाणं भंते' इत्यादि चतुर्विंशतिदण्डकसूत्रं सुगमम् । सम्प्रति आसां क्रियाणां परस्परमविनाभावं चिन्तयति, तद्यथायस्यारम्भिकी क्रिया, तस्य पारिग्रहिकी स्याद् भवति, स्यान भवति, प्रमत्तसंयतस्य न भवति शेषस्य भवतीत्यर्थः । तथा यस्यारम्भिकी क्रिया, तस्य मायाप्रत्यया नियमाद् भवति, यस्य मायाप्रत्यया क्रिया तस्य आरम्भिकी क्रिया स्याद् भवति स्यान भवति, प्रमत्तसंयतस्य देशविरतस्य च न भवति, शेषस्याविरतसम्यग्दृष्ट्यादेर्भवति इति भावः । यस्य पुनरप्रत्याख्यानक्रिया, तस्य आरम्भिकी क्रिया नियमाद् भवति, अप्रत्याख्यानिनोऽवश्यमारम्भसम्भवात् । एवं मिथ्यादर्शनप्रत्ययापि सहाविनाभावो भावनीयः । तथाहि-यस्यारम्भिकी क्रिया तस्य मिथ्यादर्शनप्रत्यया स्याद् भवति स्यान भवति, मिथ्यादृष्टेर्भवति शेषस्य तु न भवतीत्यर्थः । यस्य तु मिथ्यादर्शनक्रिया तस्य नियमादारम्भिकी मिथ्यादृष्टेरविरतत्वेनावश्यमारम्भसम्भवात् । तदेवमारम्भिकी क्रिया पारिग्रहिक्यादिभिश्चतसृभिरुपरितनीभिः क्रियाभिः सह परस्परमविनाभावेन चिन्तिता । एवं पारिग्रहिकी तिसृभिः, मायाप्रत्यया द्वाभ्याम्, अप्रत्याख्यानक्रिया एकया, मिथ्यादर्शनप्रत्यया चिन्तनीया । तथा चाह-एवं पारिग्गहिआवि तिहिं उपरिल्लाहिं समं संचारे अव्वा०' इत्यादि सुगमं भावनाया: सुप्रतीतत्वात् । अमुमेवार्थं चतुर्विंशतिदण्डकक्रमेण चिन्तयति-'नेरइयस्स आइल्लाओ चत्तारि' इत्यादि । नैरयिका हि उत्कर्षतोऽप्यविरतसम्यग्दृष्टिगुणस्थानकं यावत्, न परतः, ततो नैरयिकाणामाद्याश्चतस्रः क्रियाः परस्परमविनाभाविन्यः मिथ्यादर्शनक्रियां प्रति स्याद्वादः तमेवाह-'जस्स एयाओ चत्तारि' इत्यादि, मिथ्यादृष्टेमिथ्यादर्शनक्रिया भवति शेषस्य न भवति इति भावः । यस्य पुनः मिथ्यादर्शनक्रिया तस्याऽऽद्याश्चतस्रो नियमात् मिथ्यादर्शने सत्यारम्भिक्यादीनामवश्यंभावात् । एवं तावद्वक्तव्यं यावत्स्तनितकुमारस्य । पृथिव्यादीनां चतुरिन्द्रियपर्यवसानानां पञ्च क्रियाः परस्परमविनाभाविन्यो वक्तव्याः, पृथिव्यादिनां मिथ्यादर्शनक्रियाया अप्यवश्यंभावात् । तिर्यक्पञ्चेन्द्रियस्याद्यास्तिस्रः परस्परमविनाभूता देशविरतिं यावद् आसामवश्यंभावात् । उत्तराभ्यां तु द्वाभ्यां स्याद्वादः । तमेव दर्शयति - 'जस्स एयाओ कज्जंति' इत्यादि देशविरतस्य न भवतः शेषस्य तु भवतः इति भावः । यस्य पुनरुपरितन्यौ द्वे क्रिये तस्याद्यतिस्रो नियमाद् भवन्ति, उपरितन्यौ हि क्रिये अप्रत्याख्यानक्रिया मिथ्यादर्शनप्रत्यया च। तत्राप्रत्याख्यानक्रियाऽविरतिसम्यग्दृष्टिं यावत्, मिथ्यादर्शनक्रिया मिथ्यादृष्टेः । आद्यास्तिस्रो देशविरतिं यावत्, अत उपरितन्योर्भावेऽवश्यमाद्यानां तिसृणां भावः । संप्रति अप्रत्याख्यानक्रियाया मिथ्यादर्शनक्रियायास्तिर्यक्पञ्चेन्द्रियस्य परस्परमविनाभावं चिन्तयति - 'जस्स अपच्चक्खाणकिरिया' इत्यादि भावितम् । मनुष्ये