SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ૩૫ प्रतिभाशतs | Rels : 30 यथा जीवपदे तथा वक्तव्यम् । व्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकस्य, एवमेष एको दण्डः । एवमेव जं समयं णं भंते ! इत्यादिको द्वितीयः 'जं देसं णं' इत्यादिकस्तृतीयः, 'जं पएसं णं' इत्यादिकश्चतुर्थः । पाणाइवायविरयस्स णं भंते इत्यादि । आरम्भिकी-क्रिया स्याद् भवति स्यान्न भवति, प्रमत्तसंयतस्य भवति शेषस्य न भवतीति भावः । पारिग्रहिकी निषेध्या सर्वथा परिग्रहानिवृत्तत्वात्, अन्यथा सम्यक्प्राणातिपातविरत्यनुपपत्तेः। मायाप्रत्यया स्याद् भवति स्यान्न भवति, अप्रमत्तस्यापि हि कदाचित्प्रवचनमालिन्यरक्षणार्थं भवति, शेषकालं तु न भवति । अप्रत्याख्यानक्रिया मिथ्यादर्शनप्रत्यया च सर्वथा निषिध्यते, तद्भावे प्राणातिपातविरत्ययोगात्। प्राणातिपातविरतेश्च द्वे पदे, तद्यथा-जीवो मनुष्यश्च तत्र यथा सामान्यतो जीवमधिकृत्योक्तं तथा मनुष्यमधिकृत्य वक्तव्यम् । तथा चाह - “एवं पाणाइवायविरयस्स मणूसस्स वि" एवं तावद्वाच्यं यावत्मायामृषाविरतस्य जीवस्य मनुष्यस्य च । मिथ्यादर्शनशल्यविरतिमधिकृत्य सूत्रं - "मिच्छादसणसल्लविरयस्स णं भंते ! जीवस्स" इत्यादि । आरम्भिकी स्याद् भवति स्यान भवति, प्रमत्तसंयतान्तस्य भवति शेषस्य न भवतीति भावार्थः । पारिग्रहिकी देशविरतिं यावद् भवति परतो न भवति । मायाप्रत्ययाप्यनिवृत्तिबादरसंपरायं यावद्-भाविनी परतो न भवति । अप्रत्याख्यानक्रियाप्यविरतसम्यग्दृष्टिं यावद्भवति न परतः । तत एता अपि क्रिया अधिकृत्य-“सिय कज्जइ सिय नो कज्जइ" इति वक्तव्यम् । तथा चाह -“एवं जाव अपच्चक्खाणकिरिया" इति । मिथ्यादर्शनप्रत्यया पुनर्निषेध्या मिथ्यादर्शनशल्यविरतस्य तस्या असंभवात् । चतुर्विंशतिदण्डकचिन्तायां नैरयिकादीनां स्तनितकुमारपर्यवसानानां चतस्रः क्रिया वक्तव्याः, मिथ्यादर्शनप्रत्यया निषेध्या । तिर्यक्पञ्चेन्द्रिय स्याद्यास्तिस्रः क्रिया नियमतो वक्तव्या, अप्रत्याख्यानक्रिया भाज्या, देशविरतस्य न भवति, शेषस्य भवतीत्यर्थः। मिथ्यादर्शनप्रत्यया निषेध्या । मनुष्यस्य यथा सामान्यतो जीवस्य व्यन्तरादीनां यथा नैरयिकस्य । संप्रति आसामेवारम्भिक्यादीनां क्रियाणां मिथोऽल्पबहुत्वमाह-एयासि णं' इत्यादि । सर्वस्तोका मिथ्यादर्शनप्रत्यया क्रिया, मिथ्यादृष्ट्यादीनामेव भावात् । ततोऽप्रत्याख्यानक्रिया विशेषाधिका, अविरतसम्यग्दृष्टीनां मिथ्यादृष्टीनां च भावात् । ताभ्योऽपि पारिग्रहिक्यो विशेषाधिका, देशविरतानां पूर्वेषां च भावात्, ताभ्योऽपि आरम्भिक्यो विशेषाधिकाः, प्रमत्तसंयतानां पूर्वेषां च भावात् । ताभ्योऽपि मायाप्रत्यया विशेषाधिका, अप्रमत्तसंयतानामपि भावात्, इति वृत्तौ । टीमार्थ : ___ अत्र ..... लिख्यते - महीयांच्ययंद्रना थिनना २२एम हे हेतु माया तमi, અસંમોહને માટે (પન્નવણાસ્ત્રમાં) જે ક્રિયાપદ છે તેનો એક ભાગ લખાય છે – હે ભગવંત ! ક્રિયાઓ કેટલા પ્રકારની છે ? હે ગૌતમ ! પાંચ પ્રકારની ક્રિયાઓ કહેલી છે, તે આ પ્રમાણે(१) आरंHिN (२) पाRAN (3) मायाप्रत्य[481 (४) अप्रत्याध्यानाध्या (५) मिथ्याशनप्रत्य[481. હે ભગવંત ! આરંભિકી ક્રિયા કોને હોય છે ? હે ગૌતમ ! અન્યતર પ્રમત્તસંયતને પણ હોય છે.
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy