________________
396
प्रतिभाशds/Rels: 30 टी :
___ असदारम्भनिवृत्तिफलत्वं च द्रव्यस्तवस्य चारित्रमोहक्षयोपशमजननद्वारा फलतः, शुभयोगरूपतया स्वरूपतश्च । अत एव ततोऽनारम्भिकी क्रिया, शुभयोगे प्रमत्तसंयतस्यानारम्भकतायाः प्रज्ञप्तौ दर्शितत्वादार्थेनातिदेशेन देशविरतस्यापि तल्लाभात् । तथा च प्रज्ञप्तिसूत्रम् - 'जीवा णं भंते ! किं आयारंभा, परारंभा तदुभयारंभा अणारंभा? गो० । अत्थेगइया जीवा आयारंभावि परारंभावि तदुभयारंभावि णो अणारंभा । अत्थेगइया जीवा णो आयारंभा, णो परारंभा, णो तदुभयारंभा अणारंभा । से केणठेणं भंते ! एवं वुच्चइ-अत्थेगइया जीवा आयारंभावि००० एवं पडिउच्चारेयव्वं । गो० । जीवा दुविहा पं० तं० संसारसमावण्णगा य असंसारसमावण्णगा य । तत्थ णं जे ते असंसारसमावण्णगा, ते णं सिद्धा । सिद्धा णं णो आयारंभा जाव अणारंभा । तत्थ णं जे संसारसमावण्णगा, ते दुविहा पं० तं० संजया य असंजया य । तत्थ णं जे ते संजया ते दुविहा पं० तं० - पमत्तसंजया अपमत्तसंजया य । तत्थ णं जे अपमत्तसंजया ते णं णो आयारंभा णो परारंभा जाव अणारंभा । तत्थ णं जे ते पमत्तसंजया ते सुहं जोगं पडुच्च णो आयारंभा, णो परारंभा जाव अणारंभा । असुहं जोगं पडुच्च आयारंभावि जाव णो अणारंभा । तत्थ णं जे ते असंजया ते अविरई पडुच्च आयारंभावि जाव णो अणारंभा इति । व्याख्या-'सुहं जोगं पडुच्च' ति । शुभयोगः उपयुक्ततया प्रत्युपेक्षणादिकरणम् । अशुभयोगस्तु तदेवानुपयुक्ततया । आह च - “पुढवी आउक्काए, तेउवाउवणस्सइतसाणं, पडिलेहणापमत्तो छण्हंपि विराहओ होइ ।।१।।" (आचा० नि० १२३) तथा “सव्वो पमत्तजोगो, समणस्स उ होइ आरंभो” त्ति । अतः शुभाशुभौ योगावात्मारंभादिकारणमिति । 'अविरइं पडुच्च' त्ति इहायं भावः - यद्यप्यसंयतानां सूक्ष्मैकेन्द्रियादीनां नात्मारम्भकत्वादिकं साक्षादस्ति, तथाप्यविरतिं प्रतीत्य तदस्ति तेषाम्, नहि ते ततो निवृत्ताः, अतोऽसंयतानामविरतिस्तत्र कारणमिति निवृत्तानां तु कथञ्चिदात्माद्यारम्भकत्वेऽप्यनारम्भकत्वम् । यदाह - "जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला, अज्झत्थविसोहिजुत्तस्स" । त्ति (ओघनिगा० ७६०) से तेणठेणं त्ति' अथ तेन कारणेनेत्यर्थः इति वृत्तौ।। अत्र संयतासंयतानां पृथगनुपदेशादसंयतातिदेशस्यान्याय्यत्वे प्रमत्तसंयतातिदेश एव न्याय्यः । तथा च देवार्चादौ शुभयोगसत्त्वात् कथं तेषामारम्भः । नचारम्भानारम्भस्थानसत्त्वात्तेषामुभयसम्भव:, कालभेदेन तत्सत्त्वस्य प्रमत्तसंयतेऽप्युक्तत्वादेकदा तत्सत्त्वस्य पौषधादावतिप्रसक्तत्वात् । न च देशाविरतिसत्त्वात् तत्प्रत्ययारम्भिकी, शुभयोगप्रत्यया च नेत्यपि वक्तुं शक्यम्, विप्रतिषेधादेकेन्द्रियादौ सर्वविरत्यभावस्यैवारम्भिकीप्रयोजकत्वाच्च । किञ्च, प्रमत्तान्तस्य प्रज्ञापनायामारम्भिक्युपदेशात्र्यायसाम्यादुक्त आर्थोऽतिदेशो युक्त एव । अत एव स्वपरतदुभयभेदेन त्रिधा पारितापनिक्यामुक्तायामेवं सति लोचकरणतपोऽनुष्ठानाकरणप्रसङ्गो विपाकहितत्वेन चिकित्साकरणन्यायेनाध्यात्मशोधनेनैवाभिहितः ।