________________
પર
પ્રતિમાશતક/ શ્લોકઃ ૧૭ साहम्मिउग्गहे । जे इमे भंते ! अज्जत्ताए समणा निग्गंथा विहरंति, एएसिं णं अहं उग्गहं अणुजाणेमि त्ति कटु समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव दिव्वं जाणविमाणं दुरूहति २ जामेव दिसिं पाउभूते तामेव दिसिं पडिगए । भंते त्ति भयवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता, एवं वयासी-जं णं भंते ? सक्के देविंदे देवराया तुब्भे एवं वदति, सच्चे णं एसमढे ? हंता सच्चे । सक्के णं भंते ! देविंदे देवराया किं सम्मावादी मिच्छावादी ? गो० ! सम्मावादी, णो मिच्छावादी । सक्के णं भंते ! देविंदे देवराया किं सच्चं भासं भासइ, मोसं भासं भासइ, सच्चामोसं भासं भासइ, असच्चामोसं भासं भासइ ? गो० । सच्चंपि भासं भासइ जाव असच्चामोसंपि भासं भासइ । सक्के णं भंते ! देवराया किं सावज्जं भासं भासइ, अणवज्जं भासं भासइ ? गो० । सावज्जपि भासं भासइ अणवज्जपि भासं भासइ । से केणठेणं भंते ! एवं वुच्चइ-सावज्जपि जाव अणवज्जंपि भासं भासइ ? गो० ! जाहे णं सक्के देविंदे देवराया सुहुमकायं अणिज्जूहित्ताणं भासं भासइ, ताहे णं सक्के देविंदे देवराया सावज्जं भासं भासइ, जाहे णं सक्के देविंदे देवराया सुहुमकायं णिज्जूहित्ताणं भासं भासइ ताहे णं सक्के देविंदे देवराया अणवज्जं भासं भासइ, से तेणट्टेणं जाव भासइ । सक्के णं भंते ! देविंदे देवराया किं भवसिद्धिए ? अभवसिद्धिए ? सम्मदिट्ठी मिच्छादिठ्ठीए ? एवं जहा मोओद्देसए-सणंकुमारो जाव णो अचरमे त्ति ।।' षोडशशते द्वितीयोद्देशके शतके । 'उग्गहे' त्ति-अवगृह्यते स्वामिना स्वीक्रियते यः सोऽवग्रहः । देविंदोग्गहे त्ति देवेन्द्रः शक्र ईशानो वा, तस्यावग्रहो दक्षिणलोकार्द्ध उत्तरं देति देवेन्द्रावग्रहः । 'राउग्गहे' त्ति राजा चक्रवर्ती तस्यावग्रहः षट्खण्डभरतादिक्षेत्रं राजावग्रहः । 'गिहवइउग्गहे त्ति' गृहपतिः माण्डलिको राजा, तस्यावग्रहः स्वकीयं मण्डलमिति गृहपत्यवग्रहः । 'सागारिउग्गहे' त्ति सह अगारेण=गेहेन वर्त्तत इति सागारः, स एव सागारिकः तस्यावग्रहो गृहमेवेति सागारिकावग्रहः । 'साहम्मिग्गहे' त्ति समानेन धर्मेण चरन्तीति साधर्मिकाः साध्वपेक्षया साधव एव तेषामवग्रहः तदाभाव्यपञ्चकोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधर्मिकावग्रहः । एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह - 'जे इमे' इत्यादि ‘एवं वयति त्ति' पूर्वोक्तं 'अहं उग्गहं अणुजाणामी' त्येवंरूपं वदति अभिधत्ते । सत्य एषोऽर्थ इति । अथ भवत्वयमर्थः सत्यः तथाप्ययं स्वरूपेण सम्यग्वादी उत नेत्याशङ्क्याह, 'सक्के णमि' त्यादि सम्यग्वदितुं शीलं स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशीलत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भाषते नवेति प्रश्नयनाह, 'सक्के णं' इत्यादि । सत्यापि भाषा कथञ्चिद् भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति-'सक्के णं' इत्यादि । 'सावज्ज' ति सहावद्येनगर्हितकर्मणेति सावद्या तां 'जाहे णं' ति यदा 'सुहुमकायंति सूक्ष्मकायं हस्तादिकं वस्त्विति वृद्धाः, अन्ये त्वाहुः ‘सुहुमकायं ति वस्त्रं, 'अणिजूहित्ताणं' त्ति अपोह्यादत्वा । हस्ताद्यावृत्तमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवत्यन्या तु सावद्येति । शक्रमेवाधिकृत्याह-'मोऊद्देसए' त्ति तृतीयशतके प्रथमोद्देशकं । तत्पाठो यथा'सणंकुमारे णं भंते! देविंदे देवराया किं भवसिद्धिए अभवसिद्धिए ? सम्मदिट्ठी ? मिच्छादिट्ठी ? परित्तसंसारीए अपरित्तसंसारीए ? सुलहबोहीए दुल्लहबोहीए ? आराहए विराहए ? चरमे अचरमे ? गो० ।