________________
धर्मपरीक्षा भाग-२ | गाथा-४०
टीs:
ता उस्सुत्तं ति । तत् तस्मात्कारणात् उत्सूत्रं मुक्त्वा तुरेवकारार्थः स च सर्वेषां इत्यनन्तरं योज्यः, सर्वेषामेव गुणाननुमोदेत भव्य इति शेषः यद्-यस्मात् स्तोकादपि ततः उत्सूत्रात् मरीचिरिव दुःखं लभेत, मरीचिर्हि 'कविला इत्थंपि इहयंपि' इति स्तोकादप्युत्सूत्रात्सागरोपमकोटाकोटीमानसंसारपरिभ्रमणजन्यदुःखं लब्धवान्, ततो यो मार्गानुसार्यनुमोदनां लुम्पन्नुत्सूत्रसहस्रवादी तस्य किं वाच्यमिति भावः ।
अत्र केचिदाहुः-मरीचिरुत्सूत्राद् दुःखं लब्धवानिति वयं न सहामहे, उत्सूत्रस्य नियमतोऽनन्तसंसारकारणत्वात्, तेन चासंख्येयसंसारार्जनात्, तत उत्सूत्रमिश्रितमेवेदं मरीचिवचनं, न तूत्सूत्रमिति प्रतिपत्तव्यम् । तथाहि-साधुधर्मे द्विरुक्तेऽपि साधुधर्मानभिमुखेन कपिलेन 'युष्मत्समीपे कश्चिद्धर्मोऽस्ति ?' इति पृष्टे, आवश्यकवृत्त्यभिप्रायेण तु भवद्दर्शने किञ्चिद्धर्मोस्ति ?' इति पृष्टे, 'अहो । अयं प्रचुरकर्मा द्विरुक्तोऽपि साधुधर्मानभिमुखो मदुचितः सहायः संवृतः' इति विचिन्त्य मम देशविरतिधर्मोऽस्ति' इत्यभिप्रायेण 'मनागिहाप्यस्ति' इति मरीचिरुक्तवान् । तत्र मरीचेर्यदि देशविरतिविमर्शना नाभविष्यत्तर्हि 'मनाग्' इति नाभणिष्यत्, एतद्वचनं परिव्राजकवेषे सति परिव्राजकदर्शने किञ्चिद्धर्मव्यवस्थापकं संपन्नम्, 'इह' शब्दस्यास्पष्टार्थवाचकत्वेन श्रोतुः कपिलस्य परिव्राजकदर्शनेऽपि किञ्चिद्धर्मोऽस्ति इत्यवबोधात्, अन्यथा कपिलः परिव्राजकवेषं नाग्रहीष्यत् तस्य धर्मचिकीर्षयैव तद्वेषोपादानात् राजपुत्रत्वेनान्यकारणासंभवात्, ततश्च कापिलीयदर्शनप्रवृत्तिः, सा च कपिलस्य मरीचेरन्येषां च महानर्थकारणं, कुप्रवचनरूपत्वात्, तदेतदेवंभूतं वचनमुत्सूत्रमिश्रं, मरीच्यपेक्षया सूत्रत्वेऽपि कपिलापेक्षया उत्सूत्रत्वाद्, 'मम पार्श्वे मनाग्धर्मोऽस्ति' इति देशविरतस्य मरिचेरभिप्रायान्मरीच्यपेक्षया हि सत्यमेवैतत्, 'परिव्राजकदर्शने मनाग्धर्मोऽस्ति' इति कपिलस्य बुद्धिजनकत्वेन कपिलापेक्षया चासत्यरूपमेव इति । तदसत्, उत्सूत्रकथनाभिप्रायेण प्रवृत्तस्यास्य वचनस्य मायानिश्रितासत्यरूपस्योत्सूत्रत्वाद्, आपेक्षिकसत्यासत्यभावाभ्यामुत्सूत्रमिश्रितत्वाभ्युपगमे च भगवद्वचनस्यापि तथात्वप्रसङ्गात् तदपि हि भगवतस्तद्भक्तानां चापेक्षया सत्यं पाखण्डिनां चापेक्षयाऽसत्यमिति ।
अथ भगवता वचनं परस्यासत्यबोधाभिप्रायेण न प्रयुक्तमिति नोत्सूत्रं, मरीचिना तु प्रकृतवचनं कपिलस्यासत्यबोधाभिप्रायेणैव प्रयुक्तम्, स ह्येवं ज्ञातवान् एतन्मद्वचनं कपिलस्य परिव्राजकदर्शने धर्मबुद्धिजनकं भविष्यतीत्येवमेवायं बोधनीयः इति, कथमन्यथाऽस्य परिव्राजकवेषमयमदास्यद्? इति महद्वैषम्यमिति चेत् ? हन्त तर्हि उत्सूत्रमेवेदं प्राप्तमिति गतमुत्सूत्रमिश्रेण, द्रव्यतोऽसत्यस्य किशलयपाण्डुपत्राद्युल्लापरूपसूत्रवचनस्येव द्रव्यतः सत्यस्य प्रकृतवचनस्योत्सूत्ररूपस्यापि मिश्रत्वा