________________
धर्मपरीक्षा नाग-२ | गाथा-30 अकामस्य=निरभिलाषस्य, तथाविधबलीवर्दादेरिव या निर्जरा कर्मक्षपणा, तस्या अङ्गनिमित्तं, न तु मुक्तिफलाया निर्जरायाः कुतः? इत्याह-उक्तविपर्ययाद्-उदग्रविवेकाभावेन रत्नत्रयाराधनाऽभावादिति ।।'
उचितानुष्ठानं च साध्वादीनां यथा शुद्धचारित्रपालनादिकं तथा मार्गानुसारिणां मिथ्यादृशामपि सामान्यतः सदाचारादिकम्, भूमिकाभेदेनौचित्यव्यवस्थानात्, ततोऽधिकारिभेदेन यद्यदोचितमनुष्ठानं तत्तदा साक्षात्पारम्पर्येण वा निर्वाणफलमिति सकामनिर्जराङ्गम्, यच्चानुचितं तद् ‘अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्राद्' इति वचनादभिनिवेशसहकृतत्वेन विपरीतफलमिति तत्वतोऽकामनिर्जराङ्गमिति मन्तव्यम् । इत्थं च 'तओ भणियं नाइलेण जहा ‘मा वच्छ ! तुम एतेण परिओसमुवयासु । जहा अहयं आसवारेण परिमुसिओ, अकामणिज्जराए वि किंचि कम्मखओ हवइ किं पुण जं बालतवेण? ता एते बालतवस्सिणो दट्ठव्वे, जओ णं किंचि उस्सुत्तुम्मगयारित्तमेएसि य दीसइ' इत्यादि महानिशीथचतुर्थाध्ययनवचनाद् अकामनिर्जराजन्यात्कर्मक्षयाद् बालतपोजन्यस्य तस्य भूयस्त्वसिद्धेः 'अणुकम्पाकामणिज्जरबालतवोदाणविणयविब्भंगे' इत्यादौ सम्यक्त्वप्राप्तिहेतुषु, महव्वयअणुव्वएहि य बालतवोकामणिज्जराए य । देवाउअं णिबंधइ सम्मद्दिट्ठीय जो जीवो ।। इत्यादौ देवायुःकारणेषु च भेदेनाभिधानादकामनिर्जराबालतपसोर्भेदो यः प्रोच्यते स स्वरूपभेदं निजनिजफलभेदं चापेक्ष्य बालतपः सर्वमेवाकामनिर्जराङ्गं' इति परस्य भ्रान्तिनिरासाय । तत्त्वतस्तु यदुचितानुष्ठानं तनाकामनिर्जराङ्गं, यच्चानुचितानुष्ठानं तनिर्वाणानङ्गत्वात्फलतो बालतपो वोच्यतामकामनिर्जराङ्गं वा नाऽत्र कश्चिद्विशेष इति युक्तं पश्यामः ।
किञ्च मिथ्यादृष्टीनामपि मार्गसाधनयोगा गुणस्थानकत्वाभ्युपगमादेव हरिभद्राचार्यैः प्रदर्शिताः, तथा च तेषामपि सकामनिर्जरायां न बाधकं, गुणलक्षणायास्तस्याः कुशलमूलत्वात् । तदुक्तं तत्त्वार्थभाष्ये नवमाध्याये-'निर्जरा वेदना विपाक इत्यनर्थान्तरम्, स द्विविधोऽबुद्धिपूर्वः कुशलमूलश्च तत्र नरकादिषु कर्मफलविपाको योऽबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेद् अकुशलानुबन्ध इति ।। तपः परिषहजयकृतः कुशलमूलस्तं गुणतोऽनुचिन्तयेत् शुभानुबन्धो निरनुबन्धो वेति । एवमनुचिन्तयन् कर्मनिर्जरणायैव घटत' इति ।
अत्र ह्यकुशलानुबन्धो विपाक इत्यकामनिर्जरायाः कुशलमूलश्च सकामनिर्जरायाः संज्ञान्तरमेवेति । अथ मिथ्यादृष्टेबुद्धिरबुद्धिरेवेति न बुद्धिपूर्विका निर्जरेति चेत्? न, मार्गानुसारिण्या बुद्धरबुद्धित्वेनापह्नोतुमशक्यत्वाद्, अन्यथा माषतुषादीनामप्यकामनिर्जराप्रसङ्गात्, तेषां निर्जराया अबुद्धिपूर्वकत्वात्, फलतो बुद्धिसद्भावस्य चोभयत्राविशेषाद्, उचितगुणस्थानपरिणतिसत्त्वे फलतो बुद्धिमत्त्वमबाधितमेवेति । तदुक्तं -