________________
૨૮
धर्भपरीक्षा भाग-२/गाथा-39 'गुणठाणगपरिणामे संत तह बुद्धिमंपि पाएण । जायइ जीवो तत्फलमवेक्खमन्ने उ णियमत्ति ।।' (उपदेशपद ६०३) गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति तथेति समुच्चये, बुद्धिमानपि=युक्तायुक्तविवेचनचतुरशेमुषीपरिगतोऽपि, न केवलधर्मसारः सदा भवति, प्रायेण बाहुल्येन, जायते जीवः, महतामप्यनाभोगसंभवेन कदाचित्कृत्येष्वबुद्धिमत्त्वमपि कस्यचित्स्यादिति प्रायोग्रहणम् । अत्रैव मतान्तरमाह-तत्फलं बुद्धिमत्त्वफलं स्वर्गापवर्गादिप्राप्तिलक्षणमपेक्ष्यान्ये पुनराचार्या नियमः अवश्यंभावो, बुद्धिमत्त्वस्यानाभोगेऽपि गुणस्थानपरिणतो सत्यामिति ब्रुवते । अयमभिप्रायः-संपन्ननिर्वाणव्रतपरिणामा प्राणिनो 'जिनभणितमिदं' इति श्रद्दधानाः क्वचिदर्थेऽनाभोगबहुलतया प्रज्ञापकदोषाद् वितथश्रद्धानवन्तोऽपि न सम्यक्त्वादिगुणभङ्गभाजो जायन्ते । तथोक्तं - सम्मट्ठिीजीवो उवइटुंपवयणं तु सद्दहइ । सद्दहइ असब्भावं अयाणमाणो गुरुणिओगा ।। (उत्तरा० नि० १६३) इति ।
बुद्धिमत्त्वे सति ते व्रतपरिणामफलमविकलमुपलभन्ते एवेति । यथा च सम्यग्दृष्ट्यादिगुणस्थानावान्तरपरिणतितारतम्येऽपि बुद्धिमत्त्वसामान्यफलाभेदस्तथा मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वगुणस्थानावान्तरपरिणतितारतम्येपि, अत एवापुनर्बन्धकादीनामादित एवारभ्यानाभोगतोऽपि सदन्धन्यायेन मार्गगमनमेवेत्युपिदिशन्त्यध्यात्मचिन्तकाः । यत्तु मिथ्यादृशां सकामनिर्जरासंभवे सम्यग्दृष्टिमिथ्यादृष्ट्योरविशेषप्रसङ्गः इति केनचिदुच्यते तदसत्, एवं सति मिथ्यादृष्ट्यादीनां सयोगिकेवलिपर्यन्तानां शुक्ललेश्यावत्त्वेनाविशेषप्रसङ्गात्, अवान्तरविशेषान्न तदविशेष इति चेत् ? सोयं प्रकृतेऽपि तुल्यः, सम्यग्दृष्टिनिर्जरापेक्षया मिथ्यादृष्टिनिर्जराया अल्पत्वस्याभ्युपगमादिति यथाशास्त्रं भावनीयम् ।।३७।। टीआर्थ :
यत्तूच्यते ..... यथाशास्त्रं भावनीयम् ।। 8 49ी, 15 4 वायुं छत असत् छ, म सम्पय
शुं वायु छ ? ते पता छ -
અકામનિર્જરાનું અંગપણું હોવાથી–મિથ્યાષ્ટિની સર્વ પ્રવૃત્તિઓનું અકામનિર્જરાનું કારણ પણું હોવાથી–મિથ્યાષ્ટિનું કોઈ પણ કૃત્ય અનુમોદનીય નથી, આ કોઈનું કથન અસત્ છે.
उभ असत् छ ? मां तु 53 छ -
પ્રકૃતિભદ્રકત્વાદિ ગુણવાળા મિથ્યાદષ્ટિ પણ કર્મક્ષય મને થાઓ' એ પ્રકારની ઈચ્છાથીસંસારનો ઉચ્છેદ મને થાઓ' એ પ્રકારની ઈચ્છાથી, સ્વયોગ્ય શીલ, તપાદિ સદનુષ્ઠાન કરનારા જીવોને સકામનિર્જરાનું અપાય છે=સકામનિર્જરા થાય છે.