________________
૨૬
धर्मपरीक्षा नाग-२ | गाथा-3७ त्विहपरलोकादिकामेन, युक्ता सकामा, अनन्तरोक्तकामवर्जिता त्वकामा, 'च'शब्दः समुच्चये उपायात्स्वतोऽपि वा फलानामिव कर्मणां पाकस्य भावानिर्जराया इदं द्वैविध्यमिति भावः । तत्राकामा केषाम् इत्याह तत्थ अकामा सव्वजीवाणं' निर्जराभिलाषिणां तपस्तप्यमानानां सकामनिर्जरेति वक्ष्यमाणत्वाद् तद्व्यतिरिक्तानां सर्वेषां जीवानामकामा, कर्मक्षयलक्षणाभिलाषवर्जितत्वाद् ।। एतदेव चतुर्गतिगतजन्तुषु व्यक्तीकुर्वन्नाह -
तथाहि - एगिंदिआई तिरिआ जहासंभवं छेअभेअसीउण्हवासजलग्गिछुहापिवासाकसंकुसाईएहिं, नारगा तिविहाए वेअणाए, मणुआ छुहापिवासावाहिदालिद्दचारगणिरोहणाइणा, देवा पराभिओगकिब्बिसिअत्ताइणा असायावेअणिज्जं कम्ममणुभविउं पडि(रि)साडिंति, तेसिमकामणिज्जरा ।।
तथाहीति पूर्वोक्तस्यैवोपक्षेपे, छेदभेदशीतोष्णवर्षजलाग्निक्षुधापिपासाकशाङ्कुशादय एकेन्द्रियादिषु पञ्चेन्द्रियपर्यन्ततिर्यक्षु यथायोगं योज्याः, नारकाणां त्रिविधा वेदना क्षेत्रजाऽन्योन्योदीरितपरमाधार्मिकजनितस्वरूपा । वाहित्ति व्याधिः, चारकनिरोधः कारागारग्रहः, शेषं सुबोधम् ।
सकामनिर्जरामाह - 'सकामणिज्जरा पुण णिज्जराभिलासीणं अणसण-ओमोयरिआ-भिक्खायरिय-रसच्चाय-कायकिलेस-पडिसंलिणआ भेयं छव्विहं बाहिरं, पायच्छित्त-विणअ-वेयावच्च-सज्झाय-झाण-विउसग्गभेअं छव्विहमब्मितरं च तवं तवेंताणं ।।
निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्यं, प्रायश्चित्तादिभेदं षड्विधमाभ्यन्तरं च तपस्तप्यमानानां भवति सकामा निर्जरेति संटंक इत्यादि ।'
न च-अत्रापि तपसः सकामनिर्जरारूपत्वप्रतिपादनाद् मिथ्यादृशां च तदभावान्न सकामनिर्जरेतिवाच्यं, मिथ्यादृशामपि मार्गानुसारिणां तच्च चान्द्रायणं कृच्छ्रे' इत्यादिना (यो०बि० १३१) तपसः प्रतिपादनात् । किञ्च मार्गानुसार्यानुष्ठानमात्रमेव सकामनिर्जरायां बीजं, अविरतसम्यग्दृष्ट्यनुरोधात्, न तु तपोमात्रमेवेति न काप्यनुपपत्तिः, अत एव स्फुटमोक्षाभिलाषसत्त्वेऽपि मिथ्यादृशां प्रबलासद्ग्रहदोषवतां तदभाववतामादिधार्मिकाणामिव फलतो न सकामनिर्जरा, मार्गानुसार्यनुष्ठानाभावात्, तदभावेऽपि च स्वाभाविकानुकम्पादिगुणवतां मेघकुमारजीवहस्त्यादीनां फलतः साऽबाधितेति विभावनीयम् । युक्तं चैतत्पञ्चस्वनुष्ठानेषु तद्धत्वमृतानुष्ठानयोरिव(रेव)सकामनिर्जराङ्गत्वव्यवस्थितेः । अत एवानुचितानुष्ठानमकामनिर्जराङ्गमुक्तम् । तथा च धर्मबिन्दुसूत्रवृत्तिवचनम् - 'अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति' (६/१५) 'अननुष्ठानमनुष्ठानमेव न भवति, अन्य विलक्षणमुचितानुष्ठानाद्, तर्हि कीदृशं तत्? इत्याह-अकामनिर्जराङ्गम्