________________
૨૫
धर्मपरीक्षा माग-२ | गाथा-3७ मिथ्यादृशामपि प्रकृतिभद्रकत्वादिगुणवतां 'कर्मक्षयो मे भूयाद्' इतीच्छया स्वयोग्यशीलतपःप्रभृतिसदनुष्ठानकारिणां सकामनिर्जराऽनपायात्, 'सह कामेन-मोक्षाभिलाषेण, वर्त्तते या सा सकामा' 'तद्विपरीता त्वकामा' इति हि सकामाकामयोर्निर्जरयोर्लक्षणम् । तदुक्तं योगशास्त्रवृत्ती (४-८६)
“सा निर्जरा द्वेधा सह कामेन=निर्जरा मे भूयाद् इत्यभिलाषेण, युक्ता सकामा, न त्विहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् यदाहुः ‘नो इहलोगट्ठयाए तवमहिट्ठिज्जा, नो परलोगट्ठयाए तवमहिट्ठिज्जा, नो कित्तीवण्णसद्दसिलोगट्ठयाए तवमहिट्ठिज्जा, नन्नत्थ निज्जरट्ठयाए तवमहिट्ठिज्जा इत्यादि इत्येका निर्जरा, द्वितीया तु कामवर्जिता=कामेन पूर्वोक्तेन वर्जिता” इति ।
न च वाच्यं 'ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् ।।८७ ।।' इत्यनेन योगशास्त्रस्यैव वचनान्तरेण यतीनामेव सकामा निर्जरा सिध्यति, मिथ्यादृशां तु कर्मक्षयाद्यर्थं तपःकष्टं तन्वतामप्यकामैव इति, 'ज्ञेया सकामा यमिनां' इत्यादिवचनस्योत्कृष्टसकामनिर्जरास्वामिकथनपरत्वाद, उत्कृष्टा हि सकामनिर्जरा तेषामेव भवेदिति, अन्यथा देशविरतानामविरतसम्यग्दृशां चाकामनिर्जरैव प्राप्नोति, तेषामपि यमिशब्दाव्यपदेश्यत्वेन विशेषाभावाद्, न चैतदिष्टम्, तस्मादेतद्वचनमुत्कृष्टसकामनिर्जराधिकारिकथनपरमिति न दोषः ।
किञ्च ‘ज्ञेया सकामा०' इत्यादि श्लोकव्याख्यानेऽप्यकामनिर्जरास्वामिनो निरभिलाषं निरभिप्राय च कष्टं सहमाना एकेन्द्रियादय एवोक्ताः, न तु बालतपस्व्यादयो मिथ्यादृशोऽपि ।
तथाहि-'सकामा निर्जराऽभिलाषवती, यमिनां यतीनां, विज्ञेया, ते हि कर्मक्षयार्थं तपस्तप्यन्ते, अकामा तु-कर्मक्षयलक्षणफलनिरपेक्षा निर्जरा, अन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्राणिनाम्, तथाहि-एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः शीतोष्णवर्षजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं तत्स्वप्रदेशेभ्यः परिशाटयन्ति, विकलेन्द्रियाश्च क्षुत्पिपासाशीतोष्णवातादिभिः पञ्चेन्द्रियास्तिर्यञ्चश्च छेदभेददाहशस्त्रादिभिः नारकाश्च त्रिविधया वेदनया, मनुष्याश्च क्षुत्पिपासाव्याधिदारिद्र्यादिना, देवाश्च पराभियोगकिल्बिषत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्य परिशाटयन्तीत्येषामकामनिर्जरेति ।।'
समयसारसूत्रवृत्योरप्येवमेवोक्तं (अ. ६) तथाहि - 'इदानीं निर्जरातत्त्वं निगद्यतेअणुभूअरसाणं कम्मपुग्गलाणं पडिसडणं णिज्जरा । अनुभूतरसानां=उपभुक्तविपाकानां, कर्मपुद्गलानां परिशटनं आत्मप्रदेशेभ्यः प्रच्यवनं, निर्जरा । अथ तस्या भेदावाह-'सा दुविहा पण्णत्ता सकामा अकामा य', सह कामेन निर्जरा मे भूयाद्' इत्यभिलाषेण, न