________________
धर्मपरीक्षा माग-२ | गाथा-3७ 'जेसिमवड्डो पुग्गलपरिअट्टो सेसओ उ संसारो । ते सुक्कपक्खिआ खलु अहिए पुण कण्हपक्खिआ ।।' (श्रावकप्रज्ञप्ति) 'येषामपार्द्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्वं सेत्स्यन्ते, ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः, खलुशब्दो विशेषणार्थः, प्राप्तदर्शना अप्राप्तदर्शना वा सन्तीति विशेषयति । अधिके पुनरपार्द्धपुद्गलपरावर्तात्संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः ।' इत्यादि श्रावकप्रज्ञप्तिवृत्तौ । योगबिन्दुवृत्तावप्युक्तं, 'तत्रापि शुक्लपाक्षिकोऽपार्द्धपुद्गलपरावर्तान्तर्गतसंसारः, यत उक्तं 'जेसिमवड्डो पुग्गल०' इत्यादि' ।
ततो हि क्रियावादिनः शुक्लपाक्षिकत्वं भजनीयमेव लभ्यते, अक्रियावादिनोपि नियमतः कृष्णपाक्षिकत्वमिति विघटते एव, अपार्द्धपुद्गलपरावर्ताभ्यन्तरीभूतसंसाराणामप्यक्रियावादिनां संभवात् तस्यापि कृष्णपाक्षिकत्वभजनाया एव संभवात्, नास्तिकत्वपक्षो ह्यक्रियावादः, 'अत्थि त्ति किरियावाई वयन्ति णस्थित्ति अकिरियवाई 'त्तिवचनात् स च कर्मवैचित्र्यवशादल्पतरभवानामपि प्रदेश्यादिवद् भवतीति, अत एव भगवत्यां 'सुक्कपक्खिआ जह सलेस्स' त्ति सलेश्यातिदेशेन शुक्लपाक्षिकस्याप्यक्रियावादसंभव उपदर्शितः तथा च सलेश्याधिकारप्रश्ननिर्वचनसूत्रं - _ 'सलेस्सा णं भंते जीवा किं किरियावादी? पुच्छा । गोयमा! किरियावादीवि जाव वेणईअवादीवि' त्ति । तत इमामनुपपत्तिं दृष्ट्वा भगवत्यर्थ एव मनो देयम् । भगवत्यां हि सम्यग्दृष्टय एव क्रियावादिनः प्रतिपादिताः, 'मिच्छदिट्ठी जहा कण्हपक्खिया' इत्यतिदेशात्, 'कण्हपक्खिया णं भंते जीवा किं किरियावादी? पुच्छा । गोयमा! णो किरियावादी, अकिरियावादीवि अन्नाणियवादीवि वेणइअवादीवि' त्ति वचनात्कृष्णपाक्षिकाणां च क्रियावादित्वप्रतिषेधादिति । युक्तं चैतत्, सूत्रकृताङ्गेपि समवसरणाध्ययननिर्युक्तावित्थं प्रतिपादितत्वात् तथा च तत्पाठः
सम्मदिट्ठी किरियावादी मिच्छा य सेसगावादी । जहिऊण मिच्छवायं सेवह वादं इमं सच्चं ।।१२१ ।। इति चेत् ?
मैवम्, एकशास्त्रावलंबनेनापरशास्त्रदूषणस्य महाशातनारूपत्वादुभयशास्त्रसमाधानस्यैव न्याय्यत्वात्, तत्र भगवत्यां सूत्रकृत्नियुक्तौ च क्रियावादिविशेषस्यैव ग्रहणाद्, दशाश्रुतस्कन्धचूर्णी च क्रियावादिसामान्यस्य ग्रहणान ग्रन्थविरोधः । तदुक्तं भगवतीवृत्ती- एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय एवोक्तास्तथापीह क्रियावादिनः सम्यग्दृष्टयो ग्राह्याः सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात्' इति ।
सूत्रकृतवृत्तावप्युक्तं-'ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तस्तत्कथमिह सम्यग्दृष्टित्वेनोच्यते? उच्यते-स तत्र ‘अस्त्येव जीवः' इत्येवं सावधारणतया