________________
૧૨
धर्भपरीक्षा
-२/गाथा-30
यस्त्वाह-सम्यग्दृष्टय एव क्रियावादिनः शुक्लपाक्षिकाश्च, न तु मिथ्यादृष्टय इति तेषां कृत्यं किमपि नानुमोद्यमिति-तेन न सुष्ठु दृष्टं, धर्मरुचिशालिनां सम्यग्दृशां मिथ्यादृशां चाविशेषण क्रियावादित्वस्य शुक्लपाक्षिकत्वस्य च प्रतिपादनात् । तदुक्तं दशश्रुतस्कन्धचूर्णा -
जो अकिरियावाई सो भविओ अभविओ वा, णियमा कण्हपक्खिओ । किरियावादी णियमा भविओ णियमा सुक्कपक्खिओ अन्तो पुग्गलपरिअट्टस्स णियमा सिज्झिहिति, सम्मदिछी वा मिच्छदिछि वा हुज्जत्ति ।।
एतत्संमतिपूर्वमुपदेशरत्नाकरेप्येवमुक्तं । तथाहि - (१ तट ३ अंश ४ तरंग) 'केचित्संसारवासिनो जीवा देवादिगतौ च्यवनादिदुःखभग्ना मोक्षसौख्यमनुपमं ज्ञात्वा तदर्थं जातस्पृहाः कर्मपरिणतिवशादेव मनुष्यगतिं प्रापुः तत्र चैकः प्रथमः कुगुरूपदिष्टशास्त्रार्थभाविततयाऽभिगृहीतमिथ्यात्वी दिग्मोहसमतत्त्वव्यामोहवान् पूर्वोक्तमिथ्याक्रियासु मनोवाक्कायधनादिबलवत्तया भृशमुद्युक्तो विष्णुपुराणाद्युक्तशतधनुनृपादिदृष्टान्तेभ्यो वेदपुराणाधुक्तिभ्यश्च सञ्जातजिनधर्मद्वेषात्स्वज्ञानक्रियागर्वाच्च यक्षतुल्यं सम्यग्गुरुं तदुपदेशांश्च दूरतः परिहारादिनाऽवगणय्य सर्वेभ्यः प्रागेवेष्टपुरसमं मोक्षं गन्तुं समुत्थितो निजज्ञानक्रियाग,दिनाऽन्यदर्शनिसंसर्गालापजप्रायश्चित्तभिया मार्गमिलितसम्यक्पथिकतुल्यान् जैनमुनिश्राद्धादीन् सुमार्गमपृच्छन् यथा यथा प्रबलपादत्वरितगतिसमा अनन्तजीवपिण्डात्मकमूलकसेवालादिभोजनाग्निहोत्रादिका मिथ्यात्वक्रियाः प्रबलाः कुरुते तथा तथा तज्जनितमहारंभजीवघातादिपापकर्मवशादश्वग्रीवनृतिपुरोहितादिवद् गाढ-गाढतर-गाढतम-दुःखमयकुमानुष्यतिर्यग्नरकादिकुगतिपतितो दुर्लभबोधितयाऽनन्तभवारण्ये चतुरशीतिलक्षजीवयोनिषु भ्राम्यन् शिवपुराद् भृशं दूरवत्यैव जायते, पुनरनन्तेन कालेन तत्रागामुकत्वाद्, 'किरियावाई णियमा भविओ णियमा सुक्कपक्खिओ अन्तो पुग्गलपरिअट्टस्स णियमा सिज्झिहिति सम्मदिट्ठी वा मिच्छादिट्ठी वा हुज्जा,' इति दशाश्रुतस्कन्धचू[पासकप्रतिमाधिकारादिवचनात् क्रियारुचित्वेनावश्यं शिवगामितया यथाप्रवृत्तकरणादुत्तीर्णोऽपूर्वककरणसूर्योदये स्वं भ्रान्तं मन्यमानोऽकामनिर्जरायोगादिना कथञ्चिन्मनुजभवं प्राप्य कर्मक्षयोपशमवशाज्जाततत्त्वान्वेषणश्रद्धो मिश्रादिगुणस्थानकयोगादपगतदिग्मोहसममिथ्यात्वहेतुकतत्त्वव्यामोहः कथमपि यक्षसमसद्गुरुं प्राप्य तदुपदेशबहुमानादवगतं ज्ञानादिमोक्षमार्ग तदनुगतसम्यगनुष्ठानादिना भजमान उत्कर्षतः पुद्गलपरावर्त्तमध्ये परेभ्यः पञ्चभ्योऽपि मित्रेभ्यः पश्चादनन्तेन कालेन स्वेष्टपुरसमं मोक्षमवाप्नोतीति ।' ।
ननु यद्येप्येवं दशाश्रुतस्कन्धचूर्ण्यनुसारेण क्रियावादिनः सम्यग्दृष्टिमिथ्यादृष्ट्यन्यतरत्वमुत्कर्षतोऽन्तःपुद्गलपरावर्त्तमानसंसारत्वेन शुक्लापाक्षिकत्वं च नियमतो लभ्यते, अक्रियावादिनश्च नियमात् मिथ्यादृष्टित्वं कृष्णपाक्षिकत्वं च, तथापि नात्र निश्चयः कर्तुं पार्यते, अन्यत्रापार्द्धपुद्गलपरावर्ताधिकसंसारस्यैव कृष्णपाक्षिकत्वप्रतिपादनात् । तदुक्तं -