________________
२०
धर्मपरीक्षा माग-१ / गाथा-५ अनुपातिन्यननुपातिन्योः स्वरूपमाह-अणुवाइत्ति । यद्भाषमाणः स यथाछन्दो ज्ञायते, यथा खु निश्चितं युक्तिपतितं=युक्तिसंगतमेव भाषते तदनुपातिप्ररूपणम् । यथा-यैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि । यत्पुनर्भाष्यमाणं सूत्रापेतं प्रतिभासते तद्भवत्यननुपाति, यथा चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकापतनसंभवेन सूत्रयुक्तिबाधात् । अथवा सर्वाण्येव पदान्यगीतार्थप्रतिभासापेक्षयाऽनुपातीनि, गीतार्थप्रतिभाषापेक्षया त्वननुपातीनीति ।।४।।
इदं चान्यत्तत्प्ररूपणम्-सागारियाइत्ति, सागारिकः शय्यातरस्तद्विषये ब्रूते शय्यातरपिण्डग्रहणे नास्ति दोषः प्रत्युत शय्यातरस्य महालाभ इति । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः, प्रत्युत भिक्षाशुद्धिरित्यादि ग्राह्यम् । पलिअंकत्ति, पर्यङ्कादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न कोऽपि दोषः, प्रत्युत भुमावुपविशतो लाघवादयो दोषाः । निसेज्जासेवणत्ति गृहिनिषद्यायां न दोषः, प्रत्युत धर्मकथाश्रवणेन लाभ इति । गिहिमत्तेत्ति, गृहिमात्रके भोजनं कस्मान क्रियते? न ह्यत्र दोषः, प्रत्युत सुन्दरपात्रोपभोगात् प्रवचनानुपघातलक्षणोऽन्यपात्रभाराऽवहनलक्षणश्च गुण इति । निग्गंथिचेट्ठणाइत्ति, निर्ग्रन्थीनामुपाश्रयेऽवस्थानादौ को दोषः? यत्र तत्र स्थितेन शुभं मनः प्रवर्तितव्यं, तच्च स्वायत्तमिति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते, यदि दोषो न विद्यते तदा परतोऽपि तत्र स्थेयमिति ।।५।।
चारेत्ति, चारश्च चरणं गमनमित्यर्थस्तद्विषये ब्रूते-वृष्ट्यभावे चातुर्मासकमध्येऽपि गच्छतां को दोषः? इति तथा वेरज्जत्ति, वैराज्येऽपि ब्रूते साधवो विहारं कुर्वन्तु, परित्यक्तं हि तैः शरीरं, सोढव्याः खलु साधुभिरुपसर्गा इति । पढमसमोसरणं-वर्षाकालस्तत्र ब्रूते-किमिति प्रथमसमवसरणे शुद्धं वस्त्रादि न ग्राह्यम् ? द्वितीयसमवसरणेऽपि ह्युद्गमादिदोषशुद्धमिति गृह्यते, तत्कोऽयं विशेषः? इति । तह णिइएसुत्ति, तथा नित्येषु-नित्यवासिषु प्ररूपयति-नित्यवासे न दोषः, प्रत्युत प्रभूतसूत्रार्थग्रहणादिलक्षणो गुण इति । तथा सुत्रत्ति, यधुपकरणं न केनापि ह्रियते ततः शून्यायां वसतौ को दोषः? अकप्पिये अत्ति, अकल्पिक: अगीतार्थस्तद्विषये ब्रूते-अकल्पिकेनानीतमज्ञातोञ्छं किं न भुज्यते? तस्याज्ञातोञ्छतया विशेषतः परिभोगार्हत्वात् । संभोएत्ति, संभोगे ब्रूते-सर्वेऽपि पञ्चमहाव्रतधारित्वेन साधवः सांभोगिका इति ।।६।।
अकप्पिए अत्ति विशिष्य विवृणोति । किं वत्ति, किंवत् केन प्रकारेणाकल्पिकेन-अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यं अपरिभोक्तव्यं, भवति को वा कल्पिकेन, अत्र गाथायां सप्तमी तृतीयार्थे, गृहीते गुणो भवति? नैव कश्चिद्, उभयत्रापि शुद्ध्यविशेषात् ।।७।।