SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૫ किंवा अकप्पिएणं गहियं फासुपि होइ उ अभोज्जं । अन्नाउंछं को वा होइ गुणो कप्पिए गहिए ।।७।। पंचमहव्वयधारी समणा सव्वे वि किं ण भुंजंति । इय चरणवितथवादी इत्तो वुच्छं गईसुं तु ।।८।। खेत्तं गओ अडविं इक्को संचिक्खए तहिं चेव । तित्थयरो पुण पियरो खेत्तं पुण भावओ सिद्धित्ति ।।९।। एतासां गाथानामयं संक्षेपार्थः-अहछंदस्सत्ति । यथाछन्दस्य प्ररूपणोत्सूत्रा-सूत्रादुत्तीर्णा द्विविधा भवति ज्ञातव्या । तद्यथा-चरणेषु चरणविषया, गतिषु गतिविषया । तत्र या चरणे चरणविषया सा इयं वक्ष्यमाणा भवति ।।१।। तामेवाह-पडिलेहणित्ति, मुखपोतिका=मुखवस्त्रिका सैव प्रतिलेखनी-पात्रप्रत्युपेक्षिका पात्रकेसरिका, किं द्वयोः परिग्रहेण? अतिरिक्तोपधिग्रहणदोषादेकयैव मुखपोतिकया कायभाजनोभयप्रत्युपेक्षणकार्यनिर्वाहेणापरवैफल्यात् । तथा रयहरणणिसिज्जत्ति, किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्त्तव्यम् ? एकैव निषद्याऽस्तु । पायमत्तएत्ति, यदेव पात्रं तदेव मात्रक क्रियतां, मात्रकं वा पात्रं क्रियतां, किं द्वयोः परिग्रहेण? एकेनैवान्यकार्यनिष्पत्तेः । भणितं च-'यो भिक्षुस्तरुणो बलवान् स एकं पात्रं गृह्णीयाद्' आचारांग इति । तथा पट्टएत्ति य एव चोलपोट्टकः स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियतां किं पृथगुत्तरपट्टग्रहेण? तथा पडलाइं चोलत्ति, पटलानि किमिति पृथग् ध्रियन्ते? चोलपट्टक एव भिक्षार्थं हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा पटलस्थाने वा निवेश्यताम् । उण्णादसिय त्ति, रजोहरणस्य दशाः किमित्युर्णमय्यः क्रियन्ते, क्षौमिकाः क्रियन्ताम्, ता घूर्णमयीभ्यो मृदुतरा भवन्ति । पडिलेहणापोत्तंति-प्रतिलेखनावेलायामेकं पोतं प्रस्तार्य तस्योपरि समस्तवस्त्रप्रत्युप्रेक्षणां कृत्वा तदनन्तरमुपाश्रयाद् बहिः प्रत्युपेक्षणीयम्, एवं हि महती जीवदया कृता भवतीति ।।२।। दंतच्छिन्नमिति । हस्तगताः पादगता वा नखाः प्रवृद्धा दन्तैश्छेत्तव्याः न नखरदनेन, नखरदनं हि ध्रियमाणमधिकरणं भवति । तथा अलित्तंति, पात्रमलिप्तं कर्त्तव्यं, लेवे बहुदोषसंभवान्न पात्रं लेपनीयमिति भावः । हरियट्ठियत्ति, हरितप्रतिष्ठितं भक्तपानादि डगलादि च ग्राह्यम्, तद्ग्रहणे हि तेषां हरितकायजीवानां भारापहारः कृतो भवति । पमज्जणा य णितस्सत्ति, यदि छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते ततो बहिरच्छन्ने क्रियतां, दयापरिणामाविशेषात् । ईदृशी यथाछन्दस्य प्ररूपणा चरणेषु, गतिषु चानुपातिन्यननुपातिनी च भवति ।।३।।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy