________________
૩૦૨
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૪ ___ किञ्च, एवमपि परेषां जिनाभिहितार्थश्रद्धानाभ्युपगमे सत्प्रशंसारूपबीजलाभाभ्युपगमप्रसङ्गः, न च तेषां क्वचिद् यथार्थजिनोक्तश्रद्धानेऽपि तत्प्रणेतर्यर्हति देवत्वेन भावाभावाद् 'देवो रागद्वेषरहितः सर्वज्ञ एव भवति, नापरः, स चास्मदभिमतः सुगतादिरेव' इति शाक्यादीनां 'देवोऽर्हन्नैव परमस्मन्मार्गप्रणेता' इत्यादि च मिथ्यात्वबीजं दिगम्बरादीनामस्त्येवेति न तेषु धर्मबीजसंभव इति वाच्यम्, तथापि तादृशपक्षपातरहितानां 'यः कश्चिद् रागादिरहितो विशिष्टपुरुषः स देवः' इत्यादि संमुग्धश्रद्धानवतां भगवदभिहितकतिपयसुन्दरार्थग्राहिणां धर्मबीजसद्भावस्य प्रतिहन्तुमशक्यत्वात्, औधिकयोगदृष्ट्या तत्प्रणीतवाक्येषु सुन्दरार्थमुपलभ्यान्यस्याप्यादिधार्मिकत्वोपपत्तेश्चेत्यध्यात्मदृष्ट्या विचारणीयं, तां विना वादप्रतिवादादिव्यापारात् तत्त्वाप्रतिपत्तेः । तदुक्तं योगबिन्दौ (६७-६८) -
वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ।। अध्यात्ममत्र परम उपायः परिकीर्तितः ।। गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ।। इति । अन्योऽपि व्यवहारेणान्यमार्गस्थोऽपि, तदनुसारी-जिनेन्द्र श्रुतमूलार्थपदानुसारी, तत् तस्मात्कारणात्, देशाराधको युक्त इति ।
नन्वेतदयुक्तं, मिथ्यादृशां प्राणातिपातादिविनिवृत्तेरप्यधर्मपक्षे निवेशितत्वात् तया तेषां देशाराधकत्वाभावात् । तदुक्तं सूत्रकृताङ्गे (२-२-१९) 'अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरण्णिआ' इत्यादि यावत् 'जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहु' त्ति । एतवृत्त्येकदेशो यथा 'अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राऽधर्मस्येव भूयिष्ठत्वादधर्मपक्ष एवायं द्रष्टव्यः ।' एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काञ्चित्तथाप्रकारां प्राणातिपातादिविनिवृत्तिं विदधति तथाप्याशयस्याशुद्धत्वादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशे वृष्टिवद्विविवक्षितार्थाऽसाधकत्वान्निरर्थकतामापद्यते, ततो मिथ्यात्वानुभावान्मिश्रपक्षोऽप्यधर्मपक्ष एवावगन्तव्य इति' इत्यादि इति चेत् ? ___ सत्यं, न हि वयमपि सन्मार्गगर्हादिहेतुप्रबलमिथ्यात्वविशिष्टया प्राणातिपातादिविनिवृत्तिक्रियया देशाराधकत्वं ब्रूमः, किन्तु रागद्वेषासद्ग्रहादिमान्द्येन मार्गानुसारिण्यैव तया, सा च सामान्यधर्मपर्यवसन्नापि धर्मपक्षे न समवतरति, तत्र भावविरतेरेव परिगणनात्, तदभावे बालत्वात्, तदुक्तं 'अविरई पडुच्च बाले आहिज्जइ' त्ति । एतद्वृत्तिर्यथा-'येयमविरतिरसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टेव्यतो विरतिरप्यविरतिरेव, तां प्रतीत्य आश्रित्य, बालवद् बालोऽज्ञः, सदसद्विवेकविकलत्वात्, इत्येवमाधीयते व्यवस्थाप्यते वेति' । द्रव्यविरतिश्च मिथ्यात्वप्राबल्येऽप्राधान्येन तन्मान्द्ये च मार्गानुसारित्वरूपा प्राधान्येनापि