SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा भाग - १ / गाथा - २४ उदिता भवन्तीति प्रसिद्धेः, 'तासु च भवान्नास्ति' इत्यत्र दृष्टान्तमाह यथा प्रविभक्तासु सरित्सु नदीषु समुद्रो नास्ति = तासु च समुद्रो नावतरतीत्यर्थः । अनेनाभिप्रायेण स्तुतिः, न पुनरर्हदुपदिष्टप्रवचनद्वाराऽर्हत्सकाशादन्यतीर्थिकदृष्टयः समुत्पन्ना इत्यभिप्रायेणेति - ३०१ तदसत्, प्राचीनाचार्यव्याख्यामुल्लङ्घ्य विपरीतव्याख्यानस्यापसिद्धान्तत्वात्, तदाहुः श्रीहेमचन्द्रसूरयः (अयोग. द्वा. १६). इत्थं चैतदिहेष्टव्यमन्यथा देशनाऽप्यलम् । कुधर्मादिनिमित्तत्वाद् दोषायैव प्रसज्यते ।। इति । यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहोऽधृष्या तव शासनश्रीः ।। इति । न चेदमुपदेशपदवृत्तिकृत एव दूषणदानं, किन्तु 'एक एव तु मार्गोऽपि तेषां शमपरायणः । । ' ( योगदृष्टि० १२८) इत्यादि वदतां श्रीहरिभद्रसूरीणां, 'समाख्यातं ' इति पदसूचितग्रन्थकृदेकवाक्यताशालिश्रीसिद्धसेनदिवाकराणां तदनुसारिणामन्येषां चेत्यतिदुरन्तोऽयं कोऽपि मोहमहिमा, या चानुपपत्तिरुद्भाविता ‘यदि द्वादशाङ्गं रत्नाकरतुल्यं' इत्यादिना साऽनुपपन्ना, समुद्राज्जलं गृहीत्वा मेघो वर्षति, ततश्च नद्यः प्रवृद्धा भवन्तीति प्रसिद्धेः परप्रवादानामपि नदीतुल्यानां जैनागमसमुद्रगृहीतार्थजलादांशिक क्षयोपशममेघात्प्रवृद्धिसंभवात् एवं नदीतुल्यानां परप्रवादानां जैनागमसमुद्रमूलत्वे लोकनीत्यापि बाधकाभावात्, अत एव न. समुद्रस्य नदीपितृत्वापत्तिदोषोऽपि, लोकनीत्यापि तदनुपपत्तेः, यदि चोपमानबललभ्यधर्मेण तत्सहचरितानभिमतधर्मापत्तिः स्यात् तदा चन्द्रोपमया मुखादौ कलंकितत्वाद्यापत्तिरपि स्यादिति, न चैवं मेघात्प्राग् नदीनामिव जैनागमानुसारिक्षयोपशमात् प्राक् परवादानामनुपचितावस्थत्वप्रसङ्गः, इष्टत्वात्, जैनागमानुसारिनयपरिज्ञानं विनाऽनुपनिबद्धमिथ्यात्वरूपतयैव तेषां स्थितत्वात्, न चैवं जिनदेशनाया उपचितमिथ्यात्वमूलत्वेनानर्थमूलत्वापत्तिः, विश्वहितार्थिप्रवृत्तावनुषङ्गतस्तदुपस्थित दोषाभावाद्, भावस्यैव प्राधान्यात् । तदुक्तमष्टके (२८-८) - पराभिप्रायेण प्रकृतस्तुतिवृत्तव्याख्याने च ' त्वत्तः समुदीर्णाः' इति वाच्ये 'त्वयि समुदीर्णाः' इति पाठस्य क्लिष्टत्वापत्तिः । किञ्च, एवं परेषां भगवदभिहितार्थश्रद्धानं भगवतश्च तल्लेशस्याप्यश्रद्धानं' एतावता भगवत्यतिशयालाभः । सांप्रदायिके त्वर्थे 'भगवत्यन्यदृष्टयः समवतरन्ति, भवांस्तु न तासु' इत्येवं स्वेतरसकलदर्शनार्थव्याप्यार्थकप्रवचनवक्तृत्वरूपातिशयलाभ इत्युपमया व्यतिरेकालंकाराक्षेपात् पुष्टार्थकत्वं काव्यस्य स्यात् ।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy