SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 303 ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૪ संभवतीत्येवं विषयविभागपर्यालोचनायां न कोऽपि दोष इति, अवश्यं चैतदङ्गीकर्तव्यं, अन्यथा परस्य मार्गानुसारिणो मिथ्यादृष्टेविलोपापत्तिः, मिथ्यात्वसहिताया अनुकंपादिक्रियाया अप्यकिञ्चित्करत्वाद् । यदीयानन्तानुबन्धिनां जीर्णत्वेन न सम्यक्त्वप्राप्तिप्रतिबन्धकत्वं तेषां मार्गानुसारित्वं, ते च सम्यक्त्वाभिमुखत्वेन सम्यग्दृष्टिवदेवावसातव्याः-इति त्वावयोः समानमिति, न चेदेवं तदादिधार्मिकविधिः सर्वोऽप्युच्छिद्येतेति सर्वथाऽभिनिविष्टचित्तानां मिथ्यादृशां दयादिकं दुष्टं, अनभिनिविष्टानां तु मार्गानुसारितानिमित्तमिति ध्येयं, सामान्यधर्मस्यापि सद्धर्मबीजप्ररोहत्वेनोक्तत्वात् । तदुक्तं धर्मबिन्दौ (अ.२) - प्रायः सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ ।। इति । एतेन - जे याबुद्धा महाभागा वीरा असम्मत्तदंसिणो । असुद्धं तेसिं परक्कंतं सफलं होइ सव्वसो ।। इति सूत्रकृताऽष्टमाध्ययनगाथायां (२२) 'तेषां च बालानां यत्किमपि तपोदानाध्ययनयमनियमादिषु पराक्रान्तमुद्यमः कृतस्तदशुद्धं अविशुद्धकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वात्सनिदानत्वाद्वेति, कुवैद्यचिकित्सावद् विपरीतानुबन्धीति । तच्च तेषां पराक्रान्तं सह फलेन कर्मबन्धेन वर्त्तत इति सफलम् । सर्वश इति-सर्वा अपि तत्क्रियास्तपोऽनुष्ठानादिकाः कर्मबन्धायैव' इत्युत्तरार्द्धव्याख्यानात् पण्डितानामपि त्यागादिभिर्लोकपूज्यानामपि सुभटवादं वहतामपि सम्यक्तत्त्वपरिज्ञानविकलानां सर्वक्रियावैकल्याद् न मिथ्यादृशां केषामपि क्रियावतामपि लेशतोऽप्याराधकत्वं इत्यपास्तम्, एतेन भवाभिनन्दिनां, मिथ्यादृशां सर्वक्रियावैफल्यसिद्धावपि तद्विलक्षणानां भावानुपहतत्वेन देशाराधकत्वाप्रतिघातात्, एतेन 'मिथ्यादृशां सर्वं कृत्यं निरर्थकं' इत्यादीन्यपि वचनानि व्याख्यातानि, विशिष्टफलाभावापेक्षयापि निरर्थकत्ववचनदर्शनात् । पठ्यते च (उप.मा.४२५) - नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहूणं । संजमहीणं च तवं जो चरइ णिरत्थयं तस्स ।। इत्यादि । अथ पोषमासे वटवृक्षाम्रवृक्षयोः सहकारफलं प्रत्यकारणत्ववचनयोर्यथा स्वरूपयोग्यतासहकारियोग्यताऽभावेन विशेषस्तथा मिथ्यादृक्कृत्यचारित्रहीनज्ञानादिनिरर्थकतावचनयोरपि स्फुट एव विशेष इति चेत् ? तमुयमपरोपि विशेषः परिभाव्यताम्, सहकारफलस्थानीयं मोक्षं प्रति भवाभिनन्दि
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy