SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ૧૩૧ धर्मपरीक्षा भाग-१ | गाथा-१२ अविशेषेण साधारणवृत्त्या सर्वेषां पारगत-सुगत-हर-हरि-हिरण्यगर्भादीनां, पक्षान्तरमाह-अधिमुक्तिवशेन वाअथवा यस्य यत्र देवतायामतिशयेन श्रद्धा तद्वशेन, कुतः? इत्याह-गृहिणां अद्यापि कुतोऽपि मतिमोहादनिर्णीतदेवताविशेषाणां, माननीयाः गौरवार्हाः, यद्यस्मात् सर्वे देवा उक्तरूपाः, महात्मनां परलोकप्रधानतया प्रशस्तात्मनामिति ।।११७ ।। एतदपि कथम्? इत्याह - सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः । जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ।।११८ ।। सर्वान् देवान् नमस्यन्ति नमस्कुर्वते, व्यतिरेकमाह-नैकं-कंचन देव समाश्रिताः प्रतिपन्ना वर्तन्ते, येन ते जितेन्द्रियाः निगृहीतहषीकाः जितक्रोधाः अभिभूतकोपाः, दुर्गाणि नरकपातादीनि व्यसनानि अतितरन्ति= व्यतिक्रामन्ति, ते सर्वदेवनमस्कर्तारः ।।११८ ।। ननु नैव ते लोके व्यवह्रियमाणाः सर्वेऽपि देवा मुक्तिपथप्रस्थितानामनुकूलाचरणा भवन्तीति कथमविशेषेण नमस्करणीयाः ? इत्याशङ्क्याह चारिसञ्जीवनीचारन्याय एष सतां मत । . नान्यथाऽत्रेष्टसिद्धिः स्याद्विशेषेणादिकर्मणाम् ।।११९ ।। चारेः प्रतीतरूपाया मध्ये सञ्जीवनी-औषधिविशेषश्चारिसञ्जीवनी, तस्याश्चारश्चरणं स एव न्यायो दृष्टान्तश्चारिसञ्जीवनीचारन्यायः एषोऽविशेषेण देवतानमस्करणीयतोपदेशः सतां शिष्टानां मतोऽभिप्रेतः । भावार्थस्तु कथागम्यः सा चेयमभिधीयते । अस्ति स्वस्तिमती नाम नगरी नागराकुला ।। तस्यामासीत्सुता काचिद् ब्राह्मणस्य तथा सखी । तस्या एव परं पात्रं सदा प्रेम्णो गतावधेः ।। तयोर्विवाहवशतो भिन्नस्थाननिवासिता । जज्ञेऽन्यदा द्विजसुता जाता चिन्तापरायणा ।। कथमास्ते सखीत्येवं ततः प्राघूर्णिका गता । दृष्टा विषादजलधौ निमग्ना सा तया ततः ।। पप्रच्छ किंत्वमत्यन्तविच्छायवदना सखि! । तयोचे पापसद्माऽहं पत्युर्दुर्भगतां गता ।।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy