________________
૧૩૨
मा विषीद विषादोऽयं निर्विशेषो विषात्सखि ! । करोम्यनड्वाहमहं पतिं ते मूलिकाबलात् ।। तस्याः सा मूलिकां दत्त्वा संनिवेशं निजं ययौ । प्रीतमानसा तस्य प्रायच्छत्तामसौ ततः ।। अभूद्गौरुद्धरस्कन्धो झगित्येव च सा हृदि । विद्राणाथ(णैष) कथं सर्वकार्याणामक्षमोऽभवत् ।। गोयूथान्तर्गतो नित्यं बहिश्चारयितुं सकः । तयाऽऽरब्धो वटस्याध सोऽन्यदा विश्रमं गतः ॥ तच्छाखायां नभश्चारिमिथुनस्य कथंचन । विश्रान्तस्य मिथो जल्पप्रक्रमे रमणोऽब्रवीत् ।। नात्रैष गौः स्वभावेन किन्तु वैगुण्यतोऽजनि । पत्नी प्रतिबभाषे सा पुनर्नाऽसौ कथं भवेत् ।। मूल्यन्तरोपयोगेन क्वास्ते ? साऽस्य तरोरधः । श्रुत्वैतत्सा पशोः पत्नी पश्चात्तापितमानसा ।। अभेदज्ञा ततश्चारिं सर्वां चारयितुं सकम् । प्रवृत्ता मूलिकाऽऽभोगात्सद्योऽसौ पुरुषोऽभवत् ।। अजानाना यथा भेदं मूलिकायास्तया पशुः । चारितः सर्वतश्चारिं पुनर्नृत्वोपलब्धये ।। तथा धर्मगुरुः शिष्यं पशुप्रायं विशेषतः । प्रवृत्तावक्षमं ज्ञात्वा देवपूजादिके विधौ ।।
धर्मपरीक्षा भाग -१ / गाथा - १२
सामान्यदेवपूजादौ प्रवृत्तिं कारयन्नपि ।
विशिष्टसाध्यसिद्ध्यर्थं न स्याद्दोषी मनागपि ।। इति ।
विपक्षे बाधमाह - न = नैव, अन्यथा = चारिसञ्जीवनीचारन्यायमन्तरेण अत्र = देवपूजनादौ प्रस्तुते, इष्टसिद्धिः विशिष्टमार्गावताररूपा स्याद् = भवेत् । अयं चोपदेशो यथा येषां दातव्यस्तदाह विशेषेण सम्यग्दृष्ट्याद्युचितदेशनापरिहाररूपेण, आदिकर्मणाम् = प्रथममेवारब्धस्थूलधर्माचाराणाम् । ते ह्यत्यन्तमुग्धतया कंचन देवताविशेषमजानाना न विशेषप्रवृत्तेरद्यापि योग्याः किन्तु सामान्यरूपाया एवेति ।।११९।।