________________
૧૦૧
धर्मपरीक्षा भाग-१ | गाथा-6
अत्रादिशब्दात्सर्वैरपि जीवैः श्रुतमनन्तशः स्पृष्टमित्यादि, यदस्यामेव प्रज्ञापनायामेव वक्ष्यते, प्रागुक्तं च तत्परिग्रहस्ततो न कश्चिद्दोषः' इत्यग्रेव्यक्तमेवानादिवनस्पत्यतिरिक्तानां व्यावहारिकत्वाभिधानाच्च । अनादिवनस्पतय इति च सूक्ष्मनिगोदानामेवाभिधानं, न तु बादरनिगोदानामिति । ग्रन्थान्तरेऽप्ययमेवाभिप्रायो ज्ञायते । उक्तं च लघूपमितभवप्रपञ्चग्रन्थे श्रीचन्द्रसूरिशिष्यश्रीदेवेन्द्रसूरिभिः (६७-७४) - अस्त्यत्र लोके विख्यातमनन्तजनसंकुलम् । यथार्थनामकमसंव्यवहाराभिधं पुरम् ।। तत्रानादिवनस्पतिनामानः कुलपुत्रकाः । वसन्ति च तत्र कर्मपरिणाममहीभुजा ।। नियुक्तौ तीव्रमोहोदयात्यन्ताबोधनामकौ । महत्तमबलाध्यक्षौ तिष्ठतः स्थायिनौ सदा ।। ताभ्यां कर्मपरिणाममहाराजस्य शासनात् । निगोदाख्यापवरकेष्वसंख्येयेषु दिवानिशम् ।। क्षिप्त्वा संपिण्ड्य धार्यन्ते सर्वेऽपि कुलपुत्रकाः । प्रसुप्तवन्मूर्छितवन्मत्तवन्मृतवच्च ते ।। युग्मम् ।। ते स्पष्टचेष्टाचैतन्यभाषादिगुणवर्जिताः । छेदभेदप्रतीघातदाहादीनाप्नुवन्ति च ।। अपरस्थानगमनप्रमुखो नापि कश्चन । क्रियतेऽन्योऽपि तैर्लोकव्यवहारः कदाचन ।। संसारिजीवसंज्ञेन वास्तव्येन कुटुंबिना । कालो निर्गमित पूर्वं तत्रानन्तो मयापि हि ।। तथा अत्रैव कियदन्तरे-(२६-३३) तत्रैकाक्षनिवासाख्ये नगरे प्रथमं खलु । अमीभिरस्ति गन्तव्यमर्थनं युवयोश्च तत् ।। ताभ्यामपि तथेत्युक्ते ते सर्वे तत्पुरं ययु । तस्मिंश्च नगरे सन्ति महान्तः पञ्चपाटकाः ।।