SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ૧૦૨ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૯ एकं पाटकमङ्गल्या दर्शयन्नग्रतः स्थितम् । मामेवमथ तन्वङ्गि तीव्रमोहोदयोऽब्रवीत् ।। त्वमत्र पाटके तिष्ठ भद्र ! विश्वस्तमानसः । पाश्चात्यपुरतुल्यत्वाद् भाव्येष धृतिदस्तव ।। यथाहि तत्र प्रासादगर्भागारस्थिता जनाः । सन्त्यनन्ता पिण्डिताङ्गास्तथैवात्रापि पाटके ।। वर्त्तन्ते किन्तु ते लोकव्यवहारपराङ्मुखाः । मनीषिभिः समाम्नातास्तेनाऽसांव्यवहारिकाः ।। गमागमादिकं लोकव्यवहारममी पुनः । कुर्वन्ति सर्वदा तेन प्रोक्ताः सांव्यवहारिकाः ।। अनादिवनस्पतय इति तेषां समाभिधा । एषां तु वनस्पतय इति भेदो यथापरः ।। वृद्धोपमितभवप्रपञ्चग्रन्थेप्येवमेवोक्तमस्ति, तथाहि 'अस्तीह लोके आकालप्रतिष्ठमनन्तजनसंकुलमसंव्यवहारं नाम नगरम्, तत्र सर्वस्मिन्नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः प्रतिवसन्ति' इत्यादि । 'उक्तौ च भवितव्यतया महत्तमबलाधिकृतौ-यदुत मया युवाभ्यां चामीभिः सह यातव्यं यतो भर्तृदेवता नारीति न मोक्तव्यो मया संसारी जीवः, यच्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम नगरं, तत्रामीभिर्लोकैः प्रथमं गन्तव्यम्, ततो युज्यते युवाभ्यां सह चामीषां तत्रासितुं नान्यथा, ततो यद्भवती जानातीत्यभिधाय प्रतिपन्नं तद्वचनं महत्तमबलाधिकृताभ्याम्, प्रवृत्ताः सर्वेऽपि, समागतास्तदेकाक्षनिवासं नगरम् । तत्र नगरे महान्तः पञ्च पाटका विद्यन्ते, ततोऽहमेकं पाटकं कराग्रेण दर्शयता तीव्रमोहोदयेनाऽभिहितः-भद्र ! संसारिजीव! तिष्ठ त्वमत्र पाटके, यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्त्तते, भविष्यत्यत्र तिष्ठतो धृतिरित्यादि । ततोऽहं यदा तत्राऽसंव्यवहारनगरेऽभूवं, तदा मम जीर्णायां जीर्णायामपरां गुटिकां दत्तवती, केवलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती, तत्र पुनरेकानिवासना यमागता तीव्रमोहात्यन्ताबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्मेत्यादि ।' समयसारसूत्रवृत्त्योरप्युक्तं-'अहवा संववहारिया य असंववहारिया य ।' तवृत्तिः-अथवेति द्वैविध्यस्यैव प्रकारान्तरोद्योतने । एतदेव स्पष्टयन्नाह-'तत्थ जे अणाइकालाओ आरब्भ सुहमणिगोएसु चिटुंति न कयाइ तसाइभावं पत्ता ते असंववहारिया, जे पुण सुहमणिगोएहितो निग्गया सेसजीवेसु उप्पन्ना ते संववहारिआ, ते अ पुणोवि सुहुमणिगोअत्तं पत्तावि संववहारिअच्चिय भण्णंति ।।' इदमत्र हृदयं
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy