________________
१००
धर्मपरीक्षा माग-१ | गाथा-6
टीs:
उच्यते-यदेवं प्रज्ञापनावृत्त्यभिप्रायमनुसृत्याभव्यानामव्यावहारिकत्वं व्यवस्थाप्यते तत्किं व्यावहारिकलक्षणायोगादुत परिभाषान्तराश्रयणात्? नाद्यो, लोकव्यवहारविषयप्रत्येकशरीरवत्त्वादितल्लक्षणस्याभव्येष्वपि सत्त्वात्, अनंतद्रव्यक्रियाग्रहणपरित्यागवतां तेषामव्यावहारिकराशिविनिर्गतत्वेन व्यावहारिकत्वस्योपदेशपदप्रसिद्धत्वाच्च । तथा च तद्ग्रन्थः - जं दव्वलिंगकिरियाणंतातीया भवंमि सगलावि । सव्वेसिं पाएणं ण य तत्थवि जायमेअंति ।।
एतवृत्तिः-'जमित्यादि, यद्-यस्माद् द्रव्यलिङ्गक्रिया पूजाघभिलाषेणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किम्? इत्याह-अनन्ताः अनंतनामकसंख्याविशेषानुगताः, अतीताः व्यतिक्रान्ताः, भवे-संसारे, सकला अपि तथाविधसामग्रीवशात्परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण अव्यावहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किम्? इत्याह-नच नैव तत्रापि=तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतद्=धर्मबीजमित्यादि ।' अथ 'पृथिव्यादिव्यवहारयोगेन तेषां व्यावहारिकत्वेऽप्यावलिकाऽसंख्येयभागपुद्गलपरावर्त्ताधिकसंसारवत्त्वेन न व्यावहारिकत्वमिति परिभाषान्तरमाश्रीयते' इति द्वितीयः पक्षः परिगृह्यते इति चेत्? परिगृह्यतां यदि बहुश्रुता प्रमाणयन्ति, नैवमस्माकं कापि क्षतिः, मुख्यव्यावहारिकलक्षणपरित्यागेन तेषामव्यक्तमिथ्यात्वनियमाभ्युपगमादिविरुद्धप्रक्रियाया असिद्धेः, न हि परिभाषा वस्तुस्वरूपं त्याजयतीति ।
एतेन बादरनिगोदजीवानां व्यावहारिकत्वनिषेधोऽपि प्रत्युक्तः, परिभाषामात्रेण लक्षणसिद्धस्य व्यावहारिकत्वस्य निषेद्धमशक्यत्वात्, पृथिव्यादिविविधव्यवहारयोगित्वलक्षणस्य तस्य, प्राप्तसूक्ष्मनिगोदेतरत्वपर्यवसितस्यानुगतस्यानादिसूक्ष्मनिगोदेतरसर्वजीववृत्तित्वात् । चक्षुाह्यशरीरत्वं तूपलक्षणं न तु लक्षणमित्यावयोः समानं, अन्यथाऽस्माकं सूक्ष्मपृथिवीकायिकादिष्वव्याप्तेरिव तव मते बादरनिगोदेऽतिव्याप्तेरपि प्रसङ्गात् । किं च प्रज्ञापनावृत्त्यभिप्रायेणापि बादरनिगोदजीवानां व्यवहारित्वमेव प्रतीयते, 'ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिका' इति वचनादनादिवनस्पतीनामेवाव्यावहारिकत्वाभिधानात्, 'तत्रेदं सूत्रं सांव्यावहारिकानधिकृत्यावसेयं, न चासांव्यवहारिकान्, विशेषविषयत्वात्सूत्रस्य । न चैतत्स्वमनीषिकाविजृम्भितं', यत आहुर्जिनभद्रगणिक्षमाश्रमणपूज्यपादाः (विशेषणवती ५९) - तह कायठिईकालादओवि सेसे पडुच्च किर जीवे । नाणाइवणस्सइणो जे संववहारबाहिरिया ।।