________________
Guशभाला भाग-१ | गाथा-७४-७५-७५
૧૨૯
जस्स गुरुम्मि न भत्ती, न य बहुमाणो न गोरवं न भयं । न वि लज्जा न वि नेहो, गुरुकुलवासेण किं तस्स ।।७५।। रूसइ चोइज्जतो, वहई य हियएण अणुसयं भणिओ ।
न य कहिं करणिज्जे, गुरुस्स आलो न सो सीसो ॥७६।। गाथार्थ :
સ્તબ્ધ, છિદ્રપેક્ષી, અવર્ણવાદી, સ્વમતિવાળા, ચપળ, વક્ર, ક્રોધ કરવાના સ્વભાવવાળા શિષ્યો ગુરુને ઉદ્વેગ કરનારા છે.
જેને ગુરમાં ભક્તિ નથી, બહુમાન નથી, ગૌરવ નથી, ભય નથી, લજ્જા પણ નથી, સ્નેહ પણ નથી, તેને ગુરુકુલવાસથી શું અર્થાત્ કોઈ લાભ નથી.
પ્રેરણા કરાતો રોષ કરે છે અને કહેવાયેલો હદયથી અનુશયને વહન કરે છે. કોઈ કરણીયમાં पततो नथी, गुरुनो माग छे=ses छ, d शिष्य नथी. ||७४-७५-७१।। टीका :
स्तब्धा गर्वेणानम्रकायाः, च्छिद्रप्रेक्षिणो मत्सरितया गुरोरपि दोषस्थाननिरीक्षणशीलाः, अवर्णवादिनो गुरोरप्यश्लाघाकरणप्रवणाः, तथा स्वयमात्मनः सम्बन्धिनी, न गुरोः, मतिर्बुद्धिः, प्रक्रमात्प्रवर्तिका कार्येषु येषां ते स्वयम्मतयः, चपलाश्चित्तकायाभ्यां तरलाः, चित्तेनास्थिरतयाऽपराऽपरशास्त्रपल्लवग्राहिणः, कायेनासमञ्जसं गात्रविक्षेपिणः । वक्रा मनोवाग्भ्यां कुटिलाः, मनसा गुरुविषयेऽपि मायाविनो वाचापि ये वचनं विबध्नन्ति । तथा क्रोधनेन स्वपरयोः कोपकरणेन, शीलं समाधानं येषां ते तथा, एवम्भूताः शिष्याः किं ? उद्वेजका मनस्तापहेतुत्वादुद्वेगकारिणः, कस्य गुरोर्भवन्तीति ।
किञ्च यस्य गुरौ न भक्तिर्बाह्या सेवा, न च नैव बहुमानमान्तरप्रीतिः, न गौरवं समानदर्शितया पूज्योऽयमिति न बुद्धिरित्यर्थः, न भयमकार्ये प्रवर्तमानस्य गुरोः सकाशात् । नापि लज्जा त्रपा, नापि स्नेहः प्रतिबन्धः । अपिशब्दौ समुच्चयार्थी, सरुषि नतिस्तुतिवचनं, तदभिमते प्रेममित्यादिगुणान्तराभावसम्भावनार्थो वा, बहुशो नञोऽभिधानमत्यन्तनिर्गुणताख्यापनार्थम् एवंविधस्य तस्य गुरुकुलवासेन गुर्वधिष्ठितगच्छमध्यस्थेन किं ? न किञ्चित्तदाधेयगुणविकलत्वादित्यभिप्रायः । किञ्च रुष्यति तदैव क्रुध्यति चोद्यमानो विशेषतो दोषमुत्कीर्त्यानुशिष्यमाणः, तथा वहति हृदयेन धारयति चित्तेनानुशयं क्रोधानुबन्धम्, चशब्दात् कार्यं च कालान्तरेण दर्शयति । भणितः सामान्येन स्मारितो वारितो वा, न च नैव कस्मिंश्चिदन्यतमेऽपि करणीये कर्तव्ये वर्त्तत इति शेषः । गुरोस्तदाचार्यस्य आलो दुस्तरत्वात्प्रतिप्रवेशो, नासौ शिष्योऽनुशासनानर्हत्वादिति ।।७४-७५-७६।।