________________
पहेशभाला भाग - १ / गाथा - प८-५०-५१
गृहीत्वा गताः स्वस्वस्थानेषु । उपशमितौ सिंहभुजङ्गौ । कोशा पुनः प्रायः परीषहपराभग्नोऽयमित्यभिप्रायेण विविधबिब्बोकैः स्थूलभद्रमुपसर्गयन्ती तन्निष्प्रकम्पतां निरीक्ष्य निर्विण्णा पतिता तच्चरणयोः । ज्ञाताभिप्रायेण कथितस्तेन धर्मः । जाता श्राविका राजाभियोगं विहाय गृहीतमब्रह्मविरतिव्रतम् । समाप्तेऽभिग्रहे समायाताः साधवः, स्थूलभद्रं विहायेतरे दुष्करकारका इति वदतोपबृंहिताः शेषसाधुसमक्षं गुरुणा । समागतः स्थूलभद्रः, तं प्रति ससम्भ्रमं दुष्करदुष्करकारक इति वदता कृतोपबृंहणा । ततः प्राक्तनमैश्वर्यमधिकृत्यायं सुकरकारकोऽपि वर्ण्यते गुरुभिः । अहो लोकाचारपरतामीषाम् ! इति जातमितरेषां चित्तकालुष्यम् । ततः पुनः समाहिण्ड्यान्यत्र अन्यस्मिन् वर्षे तत्रैवागतेष्वभिग्रहग्रहणोद्यतेषु साधुषु सिंहगुहावासिनोक्तमहं कोशाभगिन्युपकोशासदने चातुर्मासं निरशनः स्थास्यामीति । नोचितस्त्वमस्येति निवारितो गुरुणा, प्रतिकूल्य तद्वचो गतो तद्भवनम् । दृष्टस्तया, स्थूलभद्रासूययाऽयमागत इति भावज्ञतया संलक्ष्यानुज्ञाता तया तस्य वसतिः । ततो दर्शयाम्यस्य तद्गुणासहनफलमिति सञ्चिन्त्य रात्रावतिचर्चितशरीरा मदनोत्कोचकारिभिर्गात्रवचनविभ्रमैरुपसर्गेरुपसर्गयितुमारब्धा । ततश्चलचित्ततया विस्मृतात्मावस्थेन तेन प्रार्थिता सा प्राह, न वयं निर्धनानां भवामः । सोऽचिन्तयदुत्तरापथे श्रूयते ऽपूर्वसाधोर्लक्षमूल्यकम्बलदाता राजा तद् गच्छामि, तत्र गतः, लब्ध्वा कम्बलमागतः समर्पितवांश्च तस्याः । तयापि तस्य पश्यत एव निक्षिप्तोऽसौ वर्चोगृहे स प्राह- किमयं त्वया विनाशितः ! इतराऽऽह - ' किमिदं जानीषे ?' स प्राह-'किमत्र ज्ञातव्यं ?' इतराऽऽह - ' यद्येवं तर्हि किमित्यशुचिपूर्णेन मामकदेहेनाऽनर्घ्यगुणरत्नाव्यतिरिक्तात्मा सम्पर्कमभिलषसि ?' तदाकर्ण्य पुनरागतश्चरणपरिणामः । अहो ! निरन्तरं भवगर्ते पतन्ननयाहमुद्धृत इति विचिन्त्यासावाह - 'साधुविवेकिनि साधु ! इच्छाम्यनुशास्तिं, निवृत्तोऽहमितो दुरध्यवसायात् । ' सा प्राह- युक्तमिदं भवादृशाम्, ततो गत्वा गुरुसमीपं दत्तालोचनो विहितप्रायश्चित्तो भावसारं प्रतिक्रान्त इति ।
१०७
अधुना अक्षरार्थः- तत्र ते धन्याः पुण्यभाजस्ते साधवः, तेभ्यो नमः, ये किम् ? अकार्यं प्रतिविरता दुश्चरितनिवृत्ताः । असकृत्तच्छब्दस्य ग्रहणमादरख्यापनार्थम्, धीरा निष्प्रकम्पा व्रतमसिधारं खड्गधारासञ्चरणवद्दुरनुष्ठेयमित्यर्थः, चरन्ति स्वशक्तिमपेक्ष्यानुतिष्ठन्ति यथा स्थूलभद्रमुनिरिति । एवंविधा एव भवन्ति साधव इत्याह-विषयाः शब्दादयः, असिपञ्जरमिव करवालगृहमिव विवेकिनां दारुणविपाकतया त्रासजनकत्वाद्विषयासिपञ्जरं तस्मिन् । इवशब्दस्य व्यवहितः सम्बन्धः, स च लोके असिपञ्जर इवेत्यत्र दृष्टव्यः । ततश्च निष्कृत्रिमखड्गपञ्जर इव तीक्ष्णे विवेकशरीरच्छेदक्षमे विषयासिपञ्जरे विद्यमानेऽपि लोके सिंहा इव पञ्जरगता अस्पृष्टास्ते