________________
Gu:शभाला भाग-१ | गाथा-43-48 लाभान्तरायक्षयोपशमस्योत्कटतया निर्जित्य गृहीत्वैषणीयं पानकादिकं गतस्तं प्रदेशम् । दर्शितो देवेनाशुचिबीभत्सो धिग्दुर्मुण्ड ! स्वोदरभरणक्षणिक ! इत्यादिकर्कशवचनैरारट्यमानो ग्लानसाधुः ।
ततो बत मयाऽधन्येनाऽस्य महामुनेर्मनःखेदः सम्पादितः, कथं चायं प्रगुणो भविष्यतीति चिन्तयता तेन क्षालितस्तद्देहः । धीरो भव, करोमि नीरुजं भवन्तम्, आगच्छोपाश्रयमिति समाश्वासितो मधुरवचनैनन्दिषेणेन स प्राह-'आः पाप ! न जानीषे मेऽवस्थां, न शक्नोम्यहं पदमपि गन्तुम् । ततः समारोप्य स्वपृष्ठदेशे तमितरो गन्तुमारब्धः । देवोऽपि मुञ्चति दुर्गन्ध्यशुच्यादीनि, 'धिग् दुरात्मन् ! वेगविघातं करोषि !' इत्यादिभिः शपते च कटुकवाक्यैः । इतरोऽपि प्रवर्धमानतीव्रतरशुभपरिणामः कथमयं महात्मा स्वस्थः स्यादिति चिन्तयन् मिथ्यादुष्कृतमिदानीं शोभनं नयामीति वदन् गच्छति स्म । ततो देवस्तच्चरितावर्जितमानसः स्थाने शक्रस्य पक्षपात इति सञ्चिन्त्य मायां संहत्य प्रकटितदिव्यरूपः पतितः पादयोनिवेद्य वृत्तान्तमाह च-किं मया कर्तव्यं ? मुनिराह-यथाशक्ति धर्मोद्यम इति । गतोऽसौ स्वस्थानम् । मुनिश्च पृच्छतां साधूनां कथितवान् यथावृत्तम् ।
पश्चादवसानकाले स्मृतगृहस्थावस्थादौर्भाग्येण मनुष्यभवेऽहं सुभगो भूयासमिति कृतमिति तेन निदानम् । गतो दिवम्, ततश्च्युत्वा जातो दशमदशारो वसुदेवनामा । प्राप्तयौवनेन च तेन भ्रमता कृता हृतहृदयाः पुरसुन्दर्यः स्वगृहकर्मापि त्यक्तवत्यः । ततो नागरिकविज्ञप्तसमुद्रविजयोपरोधानिर्गतेन देशकालिकया पर्यटता वसुधाम् । रूपातिशयाक्षिप्तमनोभिः सर्वलोकैरपरापरस्थानेषु नीयमानेन परिणीता बहुसहस्रसंख्या विद्याधरनरपतिवरकन्यकाः, प्राप्तो वैषयिकसुखातिरेकः । पश्चान्मिलितेन बन्धुभिः समुत्पनेऽर्धचक्रवर्तिनि कृष्णे सुतोत्तमे, जातेषु प्रद्युम्नादिषु तद्वरतनयेषु लब्ध हरिवंशपितामहत्वमिति ।।
अधुना गाथार्थः कथ्यते-किमासीनन्दिषेणस्य कुलम् ? उच्छिन्नत्वाद्धिग्जातीयत्वाद्वा न किञ्चिदित्यर्थः तथापि यद्यस्मादसौ हरिकुलस्य विमलस्य निष्कलङ्कस्य विपुलस्य वा विस्तीर्णस्य सुचरितेन सदनुष्ठानेन हेतुभूतेन पितामहो वसुदेवनामासीदिति । तस्मात्तदेव सुचरितं प्रधानमिति गम्यते । तथा विद्याधरीभिरम्बरचारिणीभिः सहर्षं सतोषं नरेन्द्रदुहितृभिर्नरपतिसुताभिश्चेत्यर्थः, यत्प्रार्थ्यतेऽभिलष्यते तदा तस्मिन् काले वसुदेवः, तत्तपसः प्राग्भवविहितस्य वैयावृत्त्यादेः फलं ज्ञेयं, तज्जनितपुण्यशेषसम्पाद्यत्वात्तस्य । किं भूताभिः प्रार्थ्यते ?, अथ स्वगृहनिर्गमनादनन्तरं महतीभिः प्रधानाभिः, अथवा 'अहमहंतीहिं त्ति' प्राकृतशैल्या अहमहमिकया परस्परस्पर्धयान्योद्दालनेनेत्यर्थः ।।५३-५४।।