________________
८४
पहेशभाला भाग-१ / गाथा - 43-५४
गाथार्थ :
નંદિષણનું શું કુળ હતું ? અર્થાત્ કોઈ કુળ ન હતું, જે કારણથી સુચરિત્રથી વિમળ એવા હરિકુળના વસુદેવ નામના પિતામહ થયા.
ત્યારે અહમહમિકાવાળી રાજાની પુત્રીઓ વડે, વિધાધરીઓ વડે વસુદેવ જે સહર્ષ પ્રાર્થના राया ते तपनुं इ छे. -५४ ॥
टीडा :
उक्तमेवेदं प्राक्मातङ्गबलर्षिकथानके, किं पुनरुच्यते इति चेन्न, उपदेशेषु पुनरुक्तताया अदोषत्वात्, उक्तं च
सज्झायज्झाणतवओसहेसु उवएसथुइपयाणेसु ।
संतगुणकित्तणेसु य, न हुंति पुणरुत्तदोसाओ ।। १ ।।
अथवा तत्रेहलोके कुलस्याऽप्राधान्यमुक्तं गुणानां पूज्यताद्वारेण । इह तु परलोकमधिकृत्येति न दोषः । एवमुत्तरत्राप्यपौनरुक्त्यं स्वधिया योज्यमिति । तत्र तावत्सुखबोधार्थं कथानकं कथ्यते, पश्चाद् गाथार्थः कथयिष्यते ।
नन्दिग्रामे चक्रचरधिग्वर्णदारकस्य नन्दिषेणनाम्नो अव्यक्तस्यैव मृतौ मातापितरौ स्थितो मातुलसमीपे । किमत्र कर्म मुधिकया करोषि ? किं वा न दारसङ्ग्रहं द्रव्योपार्जनद्वारेणेति विप्रतारितोऽसौ लोकैः । ततो निर्गन्तुकामः स्वसुतां ते दास्यामीति वदता विधृतो मातुलेन । यौवनस्था चोपस्थापिता सा तस्य तेन, तया च तं निरीक्ष्य तद्दौर्भाग्यवैरूप्याभ्यां जातवैमुख्यया पितरं प्रत्युक्तं यदि मामस्मै दास्यसि ततोऽहं मरिष्ये । ततो द्वितीयां दास्यामि, इयं तु नेच्छतीति सम्भाव्य धृतो निर्गच्छन्नसौ तेन । एवं सप्तभिस्तत्सुताभिर्मरणाभ्युपगमेनानिष्टस्य जातमस्य वैराग्यं, चिन्तितमनेन स्वपापतरुफलमिदं, तत् किं दारसङ्ग्रहेण ? करोमि तदुन्मूलने यत्नमिति सञ्चिन्त्याटता तेन दृष्टः कश्चिदाचार्यः, धर्मं श्रुत्वा प्रव्रजितस्तत्सकाशे । अभ्यस्तक्रियाकलापो गृहीतागमश्च पञ्चशतिकगच्छस्य गृहीताभिग्रहो वैयावृत्त्यं कर्तुमारब्धः । कुर्वतश्च सोत्साहं कृतकृत्यमात्मानं भावयतो गतो बहुः कालः ।
अन्यदा स्वःसभायां धन्यः कृतार्थो नन्दिषेणो यो देवैरपि न धर्माच्च्याव्यत इति श्लाघितः शक्रेण । तदश्रद्धानोऽवतीर्णः कश्चिद्देवः स्थित्वा साधूपाश्रयद्वारे स प्राह- अटव्यां ग्लानतपस्वी तिष्ठतीति । तदाकर्ण्य षष्ठपारणके गृहीतप्रथमकवलस्तं परित्यज्य सहसा निर्गतो नन्दिषेणः परिपृच्छ्य तं प्रदेशमवस्थां च प्रविष्टः पानकौषधाद्यर्थं गोचरे । देवविहितानेषणामदीनमनस्को