SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६३ अधिकार बीजो - घटिकादिनुं प्रमाण परतश्चतुरशीतिमहाकुमुदाङ्गशतसहस्राण्येकं महाकुमुदं, चतुरशीतिमहाकुमुदशतसहस्राण्येकं त्रुटिताङ्गं बोद्धव्यम् ॥ ६८ ॥ 'तुडिये' त्यादिचतुर्थगाथा-चतुरशीतित्रुटिताङ्गशतसहस्राण्येकं त्रुटितं, चतुरशीतित्रुटितशतसहस्राण्येकं महात्रुटितांगं, चतुरशीतमहात्रुटिताङ्गशतसहस्राण्येकं महात्रुटितकं, ततः परतश्चतुरशीतिमहात्रुटितशतसहस्राण्येकमडडाङ्ग, चतुरशीत्यडडाङ्ग शतसहस्राण्येकमडडं, चतुरशीतिअडडशतसहस्राण्येकं महाडडाङ्गं, चतुरशीतिमहाड डांगशतसहस्राणि एकं महाडडं ॥६९ ।। 'ऊहंगंपिये'-त्यादिपंचमगाथा, चतुरशीतमहाडडशतसहस्राण्येकमूहाङ्गं, चतुरशीत्यूहाङ्गशतसहस्राण्येकमूह, चतुरशीत्यूहशतसहस्राण्येकं महोहाङ्गं, चतुरशीतिमहोहाङ्गशतसहस्राण्येकं महोहं, चतुरशीतिमहोहशतसहस्राण्येकं शीर्षप्रहेलिकाङ्गं चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राण्येका शीर्षप्रहेलिका ज्ञातव्या ॥ ७० ॥ सम्प्रत्येषु सङ्ख्यास्थानेषु गुणकारनिर्देशमाह-'एत्थ' मित्यादि, 'अत्र' एषु नलिनादिषु सङ्ख्यास्थानेषु शीर्षप्रहेलिकापर्यन्तेषु मध्ये एकैकस्मिन् सङ्ख्यास्थाने पूर्वं पूर्वं सङ्ख्यास्थानमधिकृत्य गुणकारो भवति चतुरशीतिशतसहस्राणि, किमुक्तं भवति ? पूर्वं पूर्वं सङ्ख्यास्थानं चतुरशीतिशतसहस्रगुणमुत्तरमुत्तरं सङ्ख्यानं भवति, एतच्च प्रागेव भावितमिति ॥ इह स्कन्दिलाचार्यप्रवृत्तौ दुष्षमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घमेलापकोऽभवत्, तद्यथा-एको वालभ्यामेको मथुरायां, तत्र च सूत्रार्थसङ्घटनेन परस्परं वाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा सङ्घटने भवत्यवश्यं वाचनाभेदो, न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानी प्रवर्त्तमानं माथुरवाचनानुगतं, ज्योतिष्करण्डकसूत्रकर्ता चाचार्यो वालभ्यः, तत इदं सङ्ख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसङ्ख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति । सम्प्रत्युपसंहारमाह- 'अहे' इति 'अहित्ति' एषा-अनन्तरोदिता सङ्ख्या भवति ‘काले' कालविषया ॥ ७१ ॥ ગાથાર્થ :- ૧ લાખ વર્ષને ૮૪થી ગુણતાં પૂર્વીગ થાય છે. ૧ લાખ પૂર્વાગને ૮૪થી ગુણતાં પૂર્વ થાય છે. પૂર્વનું પ્રમાણ - સિત્તેર લાખ છપ્પન હજાર કરોડ (७०५६0000000000)वर्ष eng. १ ८५ पूर्वन ८४थी गुरता १ तin थाय છે. તેને પણ ૮૪ લાખથી ગુણતાં ૧ લતા થાય છે ત્યારબાદ ૮૪ લાખથી ગુણતાં મહાલતા તેને ૮૪ લાખથી ગુણતાં નલિનાંગ થાય છે. એના પછી ટૂંકમાં કહીશું. नलिन, मानलिनin, मानसिन, ५in, ५५, मा५५, महाप, मलin,
SR No.022166
Book TitleJyotish Karandakam
Original Sutra AuthorN/A
AuthorParshvaratnasagar
PublisherOmkarsuri Aradhana Bhavan
Publication Year2013
Total Pages466
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_anykaalin
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy