________________
ज्योतिष्करण्डकम्
एत्थं सयसहस्साणि चुलसीई चेव होइ गुणकारो।
एक्कक्कमि उ ठाणे अह संखा होइ कालंमि ॥ ७१ ॥ सुगमा ॥ ६२ ॥ सम्प्रति यथोक्तमेव पूर्वपरिमाणं मुग्धजनविबोधनार्थं वर्षकोटिभिः प्ररूपयति-पूर्वस्य परिमाणं 'खलु' निश्चितं भवति वर्षकोटीनां सप्ततिः शतसहस्राणि तदुपरि षट्पञ्चाशत्सहस्त्राणि बोद्धव्यानि ७०५६०००००००००० ॥ ६३ ॥ पूर्वाणां 'शतसहस्रं' लक्षं चतुरशीतिगुणम् 'इह' प्रवचने एकं लताङ्गं भवति, किमुक्तं भवति ?चतुरशीतिपूर्वलक्षाण्येकं लताङ्गमिति, तेषामपि लताङ्गानां शतसहस्रं चतुरशीतिगुणमेका लता भवति, चतुरशीतिलताशतसहस्राण्येका [महालताङ्गं तेषामपि चतुरशीति महालताङ्गशत सहस्राण्येका] महालता ॥ ६४ ॥ 'ततः' महालतारूपात्संख्यास्थानादूर्ध्वं महालतानां चतुरशीतिशतसहस्राणि नलिनाङ्गं नाम सङ्ख्यास्थानं भवति, “एत्तो वोच्छं समासेणं'ति 'इतः' नलिनांगरूपात्सङ्ख्यास्थानादूर्ध्वं यानि सङ्ख्यास्थानानि तानि समासेन-संक्षेपेण वक्ष्ये, इह समासेनेति किमुक्तं भवति?-अत ऊर्ध्वं संख्यास्थानान्येव क्रमेण केवलानि निर्देक्ष्यामि, न तु प्राक्तनसङ्ख्यास्थानानीव प्रत्येकं गुणकारनिर्देशेन, यस्तु वक्ष्यमाणसङ्ख्यानां गुणकारः स पर्यन्ते कथयिष्यत इति ॥ ६५ ॥ प्रतिज्ञातमेव निर्वाहयति-इह सर्वत्रापि चतुरशीतिशतसहस्रप्रमाणो गुणकारः ‘एत्थं सयसहस्साणी'-त्यादि वक्ष्यमाणवचनात्, तत एवं भावना-चतुरशीतिनलिनाङ्गशतसहस्राण्येकं नलिनं, चतुरशीतिनलिनशतसहस्राण्येकं महानलिनाङ्ग, चतुरशीतिमहानलिनाङ्गशतसहस्राण्येकं महानलिनं, चतुरशीतिमहानलिनशतसहस्राण्येकं पद्माङ्गं, चतुरशीतिपद्माङ्गशतसहस्राण्येकं पञ, ततश्चतुरशीतिपद्मशतसहस्राण्येकं महापद्माङ्गं ॥ ६६ ॥ 'हवई' इत्यादिद्वितीयगाथा-चतुरशीतिमहापद्माङ्गशतसहस्राण्येकं महापा, ततश्चतुरशीतिमहापद्मशतसहस्राण्येकं कमलाङ्गं, चतुरशीतिकमलाङ्गशतसहस्राण्येकं कमलं, चतुरशीतिकमलशतसहस्राण्येकं महाकमलाङ्गं, ततः परतश्चतुरशीतिमहाकमलाङ्ग शतसहस्राण्येकं महाकमलम् ॥६७॥ 'कुमुयंग'मित्यादितृतीयागाथा-ततश्चतुरशीतिमहाकमलशतसहस्राण्येकं कुमुदाङ्ग, चतुरशीतिकुमुदाङ्गशतसहस्राण्येकं कुमुदं, तथा 'ततः' कुमुदरूपात्सङ्ख्यास्थानादूर्ध्वं चतुरशीतिकुमुदशतसहस्राण्येकं महाकुमुदाङ्गं ततः
१. म. वि. संस्करणे इतः पूर्व । 'हत्था बाहु सकण्णा य होंति कालम्मि कायव्या ।' इत्यधिक पाठ उपलभ्यते । तत्र स्थानेऽन्यप्रतिषु 'हत्था पाहु डंगसण्णा य होंति कालंमि णातव्व - खंटि० । 'हत्था पाहत्था पाहुडंगसण्णा य होति कालम्मि णातव्यं - जेटि० ॥ इत्यादिकानि अपि पाठान्तराण्युपलभ्यन्ते । नानाविचाररलसंग्रहेऽपि एतद् गाथात्रयं (६९-७०-७१) वर्तते ।