________________
३८
ज्योतिष्करण्डकम्
-
श्रद्धेयम् ॥ ४९ ॥ एतदेव व्याख्यानयति-युगे-पञ्चसंवत्सरात्मकेऽनन्तरमुद्दिष्टे प्रथमद्वितीयौ संवत्सरो चान्द्रौ ज्ञातव्यौ, तृतीयं संवत्सरमभिवर्द्धितं जानीहि, चतुर्थं संवत्सरं भूयश्चान्द्रमेव जानीहि, पंचममभिवर्द्धितम्, अत्र ये त्रयश्चान्द्राः संवत्सरास्ते द्वादशमासिकाः, यौ तु द्वावभिवर्द्धिताख्यौ संवत्सरौ तौ त्रयोदशमासको चन्द्रमासप्रमाणेन, अत्र द्वितीयस्य चान्द्रसंवत्सरस्य य आदिसमयस्तदनन्तरः पश्चाद्भावी समयः प्रथमचान्द्रसंवत्सरस्य पर्यवसानं च, तदानीं च चंद्रमसो योग उत्तराषाढाभिः, उत्तराषाढानां च तदानीं शेषीभूताःषड्विंशतिर्मुहूर्ताः षड्विंशतिश्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य सत्काश्चतुष्पंचाशद्भागाः, उक्तं च- "जे णं दोच्चस्स चंदसंवच्छरस्स आई से णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ, ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसं च मुहत्ता छव्वीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता चउपण्णं चुण्णिया [भागा] सेसा" [सूर्यप्र. पत्र १९६-८] इति । तदानीं च सूर्यस्य योगः पुनर्वसुनक्षत्रेण, पुनर्वसुनक्षत्रस्य च तदा शेषीभूताः षोडश मुहूर्ता अष्ट द्वाषष्टिभागा मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछित्रस्य सत्का विंशतिर्भागाः, उक्तं च- 'तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठि भागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छित्ता वीसं चुण्णिया भागा सेसा" इति । तृतीयस्याभिवर्द्धिताख्यस्य संवत्सरस्य य आदिसमयस्तदनन्तरं पश्चाद्भावी समयो द्वितीयस्य चान्द्रसंवत्सरस्य पर्यवसानं, तदानीं च चन्द्रमसो योगः पूर्वाषाढाभिः, तासां च पूर्वाषाढानां शेषीभूताः सप्त मुहूर्तास्त्रिपंचाशच्च द्वाषष्टिभागा मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिनस्य सत्का एकोनचत्वारिंशद्भागाः, उक्तं च- "जे णं तच्चस्स अभिवडियसंवच्छरस्स आई से णं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तंसमयं च णं चंदे केणं नक्खत्तेणं जोएइ ?, ता पुव्वाहिं
१. यद् द्वितीयस्य चंद्रसंवत्सरस्यादि तत्प्रथमस्य चन्द्रसंवत्सरस्य पर्यवसानोऽनंतरपश्चात्कृतः समयः, तं समयं च चंद्रः केन नक्षत्रेण युनक्ति ? उत्तराभिरषाढाभिः, उत्तराणामषाढानां षड्विंशतिश्चमुहूर्ता षडविंशं । द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिया छित्वा चतुष्पञ्चाशच्चुर्णिताः शेषाः । २. तं समयं च सूर्यः केन नक्षत्रेण योज्यते ? पुनर्वसुना, पुनर्वसोः षोडश मुहूर्ता अष्टौ च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिया छित्वा विंशतिश्चूर्णिता भागाः शेषाः । ३. यत्तृतीयस्याभिवर्धितसंवत्सरस्यादि तद् द्वितीयस्य चंद्रसंवत्सरस्य पर्यवसानोऽनन्तर पश्चात्कृतः समयः, तं समयं च चन्द्रः केन नक्षत्रेण युनक्ति ? पूर्वाभिरषाढाभिः, पूर्वाणामषाढानां सप्त मुहूर्ताः त्रिपञ्चाशच्च द्वाषष्टि आँगा मुहूर्तस्य द्वापष्टिं च सप्तषष्टिया छित्वा एक चत्वारिंशच्चूर्णिता भागाः शेषाः ।