________________
४२३
परिशिष्ट - २
दशभिर्विभज्यत इति, दशभिश्च भागे ह्रियमाणे यथोक्तं मन्दरसमीपे तापक्षेत्रपरिमाणमागच्छति, तथाहिमन्दरपर्वतस्य विष्कम्भो दश सहस्राणि १०००० तेषां वर्गो दश कोट्यः १०००००००० तासां दशभिर्गुणने टिशतं १००००००००० अस्य वर्गमूलानयने लब्धानि एकत्रिंशत्सहस्राणि षट् शतानि किञ्चिन्यूनत्रयोविंशत्यधिकानिनवरं व्यवहारतः परिपूर्णानि विवक्ष्यन्ते ३१६२३, एष राशिस्त्रिभिर्गुण्यते, जातानि चतुर्नवतिः सहस्राणि अष्टौ शतानि कोनसप्तव्यधिकानि ९४८६९, एतेषां दशभिर्भागहारे लब्धानि नव योजनसहस्राणि श्वत्वारि शतानि षडशीत्यधिकानि नव च दशभागा योजनस्य, तत एष एतावान्अनन्तरोदितप्रमाणः परिक्षेपविशेषो - मन्दरपरिरयपरिक्षेपविशेषस्तापक्षे संत्वितेराख्यात इति वदेत् स्वशिष्येभ्यः, अयं चार्थोऽन्यत्राप्युक्तः - " मन्दरपरिरयरासीतिगुणे दसभाइयंमि जं लद्धं होइ तावखेत्तं अभितरमंडले रविणो ॥१॥
[३२१] (सू.प्र.सू. २५) ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिया तावखित्तसंठिती आहियत्ति वएज्जा ? ता उड्डीमुहकलंबुयापुप्फसंठाणसंठिया तावखित्तसंठिई जाव बाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेण छज्जोयण - सहस्साइं तिण्णि य चवीसे जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहियत्ति वएज्जा, तीसे णं परिक्खेवविसेसे कओ आहियत्ति वएज्जा ? ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता सेसं तहेव, तीसे णं सव्वबाहिरिया लवणसमुद्दतेणं तेवट्ठि जोयणसहस्साइं दोण्णि य पणयाले जोयणसए छच्च दसभागे जोयणस्स य परिक्खेवेणं आहियत्ति वएज्जा, तीसे णं परिक्खेव - विसेसे कओ आहिएत्ति वएज्जा ? ता जे णं जंबूदीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता दसहिं छेत्ता दसहिं भागेहिं हरमाणे एस णं परिक्खेवविसेसे आहियत्ति वएज्जा ।
च
१०
(टि०) तदेवं सर्वाभ्यन्तरे मण्डले वर्त्तमाने सूर्ये मन्दरसमीपे तापक्षेत्रसंस्थिते: र्वाभ्यन्तरबाहाया तस्या विष्कम्भपरिमाणमुक्तं, इदानीं लवणसमुद्रदिशि जम्बूद्वीपपर्यन्ते या सर्वबाह्या बा विष्कमपरिमाणमाह-'तीसे णं 'मित्यादि, तस्याः -तापक्षेत्रसंस्थिते: लवणसमुद्रान्ते - लवणसमुद्रसमीपे सर्वबाह्या बाहा सा परिपेण- जम्बूद्वीपपरिरयपरिक्षेपेण चतुर्नवतियोजनसहस्राणि अष्टौ अष्टषष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य ९४८६८ यावदाख्याता इति वदेत्, अत्रैव स्पष्टावबोधाधानाय प्रश्नं करोति - 'ता से णं 'मित्यादि, ता इति पूर्ववत् स एतावान् परिक्षेपविशेषस्तापक्षेत्रसंस्थिते: कुत: ? कस्मात् कारणादाख्यातो नोनोऽधिको वेति वदेत् गवानाह - 'ता जे णं 'मित्यादि, ता इति पूर्ववत् यो जम्बूद्धीपस्य परिक्षेपः- परिरयगणितप्रसिद्धस्तं परिक्षेपं त्रिभिर्गुणयित्वा दनन्तरं च दशभिश्छित्वा - दशभिर्विभज्य अत्रार्थे कारणं प्रागुक्तमेवानुसरणीयं, दशभिर्भागे ह्रियमाणे यथोक्तं जम्बूद्वीपर्यन्ते तापक्षेत्रपरिमाणमागच्छति, तथाहि - जम्बूद्वीपस्य परिक्षेपस्त्रीणि लक्षाणि षोडश सहस्राणि द्धे शते सप्तविंशत्य....... के ३१६२२७ त्रीणि गव्यूतानि ३ अष्टाविंशं धनुः शतं १२८ त्रयोदश अङ्गुलानि १३ एकमर्द्धाङ्गुलं, एतावता च योजनमेकं किल किञ्चिन्युनमिति व्यवहारतः