________________
४२४
ज्योतिष्करण्डकम्
परिपूर्णं विवक्ष्यते, ततो द्वे शते अष्टाविंशत्यधिके वेदितव्ये ३१६२२८, एष त्रिभिर्गुण्यते जातानि नव लक्षाणि अष्टचत्वारिंशत्सहस्राणि षट्शतानि चतुरशीत्यधिकानि ९४८६८४, एतेषां दशभि भागो हियते, लब्धं यशोक्तं जम्बूद्वीपपर्यन्ते सर्वबाह्याया बाह्याया विष्कम्भ परिमाणं ।
[१४६] जे णं दोच्चस्स संवच्छस्स आई से णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं नक्खत्तेणं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसं मुहुत्ता छव्वीसं च बावट्ठीभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठीहा छेत्ता चउपण्णं चुन्निया भागा सेसा, तंसमयं च णं सूरे केणं नक्खत्तेणं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागं च सत्तट्ठिहा छित्ता बीसं चुण्णिया भागा सेसा । I
(टि० ) ता जे ण मित्यादि, यो द्वितीयस्य चान्द्रसंवत्सरस्यादिः - आदिसमयस्तस्मादनन्तरो यः पुरस्कृतः अतीतसमयः स प्रथमचान्द्रसंवत्सरस्य पर्यवसानं - पर्यवसानसमयः, 'तं समयं च णं'मित्यादि तस्मिश्चान्द्रसंवत्सर पर्यवसानभूते समये चन्द्रः केन नक्षत्रेण सह योगं युनक्ति - करोति ? भगवानाह-'ता उत्तराहि' इत्यादि, इह द्वादशभिः पौर्णमासीभिश्चान्द्रः संवत्सरो भवति, ततो यदेव प्राक् द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्र योग परिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यं, तथैव गणित भावना कर्त्तव्या, एवं शेष संवत्सरगतान्यादिपर्यवसानसूत्राणि भावनीयानि यावत्प्राभृतपरिसमाप्तिः, नवरं गणित भावना क्रियते तत्र द्वितीयसंवत्सरपरिसमाप्तिश्चतुर्विंशतितम पौर्णमासी परिसमाप्तौ तत्र ध्रुवराशिः षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एक सप्तष्टिभाग: ६६ / ५ / १ इत्येवं प्रमाणश्चतुर्विंशत्या गुण्यते, जातानि पञ्चदश शतानि चतुरशीत्यधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतमेकस्य च द्वाषष्टिभागस्य चतुर्विंशतिः सप्तष्टिभागाः १५८४/१२०/२४ तत एतस्मादष्टभि मुहूर्त्तशतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टि भागस्य षट्षष्टया सप्तष्टिभागैरेकः परिपूर्णो नक्षत्रपर्यायः शुद्धयति, ततः स्थितानि पश्चात्सप्त मुहूर्त्तशतानि पञ्चषष्ट्यधिकानि मुहूर्त्तगतानां च द्वाषष्टिभागानां पञ्चनवतिरेकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः ७६५/९५/२५ ततो 'मूले सत्तेव चोयाला' इत्यादि वचनात् सप्तभिश्चतुश्चत्वारिंशदधि र्मूहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टि भागस्य षष्ट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणि शुद्धानि ततः स्थिताः पश्चात् द्वाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्याष्टौ द्वाषष्टिभागा एकस्य च द्वाष्टिभागस्य षड्विंशतिः सप्तषष्टिभागाः २२ / ८ / २६ । तत आगतं द्वितीय चान्द्रसंवत्सरस्य पर्यवसानसमये पूर्वाषाढानक्षत्रस्य सप्त मुहूर्त्ता एकस्य च मुहूर्त्तस्य त्रिपञ्चाशद् द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य एक च त्वारिंशत् सप्तषष्टिभागाः शेषाः, तदानीं च सूर्येण युक्तस्य पुनर्वस द्वचत्वारिंशत् मुहूर्त्ता एकस्य च मुहूर्त्तस्य पञ्चत्रिंशत् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः ।
-