________________
४२२
ज्योतिष्करण्डकम्
आहितानि वदेज्जा ? ता जे णं जंबुद्दीवस्स २ परिक्खेवे तं परिक्खेवं तिहि गुणित्ता दसहि छेत्ता दसहि भागे हीरमाणे एस णं परिक्खेव विसेसे आहितानि वदेज्जा.
(टि०) तमेव प्रकारमाहं-'उद्धीखे'त्यादि, ऊर्ध्वमुखकलम्बुकपुष्पसंस्थिता-ऊर्ध्वमुखस्य कलम्बुकापुष्पस्येव-नालिकापुष्पस्येव संस्थितं-संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थितिः प्रज्ञप्ता, मया शेषैश्च तीर्थकृद्भिः, सा कथम्भूतेत्यत आह-अन्तः-मेरुदिशिसङ्कुचा-सङ्कुचिताहिः-लवणदिशि विस्तृता, तथा अन्तर्मेरुदिशि वृत्ता-पूत्तार्द्धवलयाकारा सर्वतोवृत्तमेरुगतान् त्रीन् द्वौ वा दशभागाननव्याप्य तस्या व्यवस्थितत्वात्, बहिर्लवणदिशि पृथुला मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टयति-'अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिय'त्ति अन्तर्मेरुदिशि अङ्क:पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धः तस्य मुखं-अग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा बहिर्लवणदिशि स्वस्तिकमुखसंस्थिता-स्वस्तिकः-सुप्रतीतः तस्य मुखं-अग्रभागः तस्येवातिविस्तीर्णतया संस्थितं-संस्थानं यस्याः सा तथा, 'उभओपासेणं ति उभयपाधैन मेरुपर्वतस्योभयोः पार्श्वयोस्तस्याः-तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन ये द्वे बाहे ते आयामेन-जम्बूद्वीपगतमायाममाश्रित्यावस्थिते भवतः, सा चैकैका आयामतः किंप्रमाणा इत्याहञ्चचत्वारिंशत् २ योजनसहस्राणि ४५०००, तस्यास्तापक्षेत्रसंस्थितेरेकैकस्या द्वे च बाहे अनवस्थिते भवतः, तद्यथा-र्वाभ्यन्तरा सर्वबाह्या च, तत्र या मेरुसमीपे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा, या तु लवणदिशि जम्बूद्वीप.....ते विष्कम्भमधिकृत्य बाहा सा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततया, वमुक्ते सति भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधनार्थं भूयः पृच्छति-'तत्थे 'त्यादि, तत्र-तस्यामेवंविधायामनन्तदितायां वस्तुव्यवस्थायां को हेतुः ? - का उपपत्तिरिति भगवान् वदेत् ?, एवमुक्ते भगवानाह-'ता अयण्ण'मित्यादि, तत्र जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण भावनीयं, 'ता जया ण 'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्यचारं चरति तदा 'उद्धमुहकलंबुयापुष्फे त्यादि, प्राग्वत् व्याख्येयं यावत्सर्वाभ्यन्तरा बाहा सर्वबाह्या च बाहा, 'तीसेण'मित्यादि, तस्यास्तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुपर्वतान्ते-मेरुपर्वतसमीपे, सा च परिक्षेपेण-मन्दरपरिक्षेपगतया नव योजनसहस्राणि चत्वारि योजनशतानि षडशीत्यधिकानि नव च दशभागा योजनस्य ९४८६ - आख्यातंमया इति वदेत्, एवमुक्ते भगवान् गौतमः प्रश्नयति-'ता से ण'मित्यादि, ता इति प्राग्वत्, स तापक्षेत्रसंस्थितपरिक्षेपविशेषो-मंदरपरिरयपरिक्षेपणविशेषः कुतःकस्मात्कारणादेवंप्रमाण आख्यातो नोनोऽधिको वेति वदेत्, भगवानाह-'ता तोण मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे मन्दरस्य-मेरोः पर्वतस्य परिक्षेप:-परिरयगणितप्रसिद्धस्तं रेक्षेपं त्रिभिर्गुणयित्वा तदनन्तरं च दशभिश्छित्वा-विभज्य, अथ कस्मादेवं क्रियत इति चेत्, उच्यते, इह सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो जम्बूद्वीपगतस्य चक्रावालस्य यत्र तत्र प्रदेशे तत्तच्चक्रवालक्षेत्रप्रमाणानुसारेण त्रीन् दशभागान् प्रकाशयति, एतच्च प्रागेवोक्तं, सम्प्रति च मन्दरसमीपे तापक्षेत्रे चिन्ता क्रियमाणा वर्ततेततो मन्दरपरिरयः सुखाववोधार्थं प्रथमतस्त्रिर्गुण्यते गुणयित्वा च