________________
३८४
ज्योतिष्करण्डकम्
दिवसाश्चतुश्चत्वारिंशन्मुहूर्ताः षट्चत्वारिंशदेकत्रिंशद्भागाः, तत्रैकत्रिंशता मुहूत्र्तो लब्ध इति स मुहूर्तराशौ प्रक्षिप्यते, जाताः पंचचत्वारिंशन्मुहूर्ताः, स्थिताः पश्चात्पंचदश एकत्रिंशद्भागास्तत्र पुष्यस्याष्टावहोरात्रा अष्टाविंशतेः शुद्धा, स्थिता पश्चाद् विंशतिः, पंचचतुश्चत्वारिंशतो मुहूर्तेभ्यश्चतुर्विंशतिमुहूर्ताः शुद्धाः, स्थिता पश्चादेकविंशतिः, इहार्द्धक्षेत्रं नक्षत्रं षड्भिरहोरात्रैरेक विंशतिमुहूर्तेः शुध्यति, समक्षेत्रं त्रयोदशभिरहोरात्रै‘दशभिर्मुहूर्तेः, सार्धक्षेत्रं विंशत्यहोरात्रैस्त्रिभिर्मुहूर्तेः, तत्र विंशतः षड्भिरहोरात्रैरेकविंशत्या मुहूर्तेरश्लेषा शुद्धा, स्थिताः पश्चादहोरात्राश्चतुर्दश पंचदश चैकत्रिंशद्भागाः, तत्र त्रयोदशभिरहोरात्रैादशभिर्मुहूर्तेर्मघा शुद्धा, शेषमवतिष्ठते अष्टादश मुहूर्ताः पंचैकत्रिंशद्भागाः आगतं द्वितीयं पर्व पूर्वाफाल्गुनीनक्षत्रस्याष्टादश मुहूर्तान् एकस्य च मुहूर्तस्य पंचदशैकत्रिंशद्भागान् भुक्त्वा समाप्तिं गतमिति तथा चतुर्थपर्वजिज्ञासायां ध्रुवराशिश्चतुर्भिर्गुण्यते, जाता अहोरात्राः षट्पंचाशत् अष्टाशीतिर्मुहूर्ताः द्विनवतिरेकत्रिंशद्भागाः, तत्र द्विनवतेरेकत्रिंशता भागो हियते, लब्धौ द्वौ मुहूत्र्ती, शेषास्त्रिंशदेकत्रिंशद्भागाः, लब्धौ च मुहूर्ती मुहूर्तराशौ प्रक्षिप्येते, जाता नवतिर्मुहूर्ताः, षट्पंचाशतश्च दिवसेभ्योऽष्टावहोरात्राः पुष्यस्य शुद्धाः, स्थिताः शेषा अष्टाचत्वारिंशत्, नवतेश्चतुविशतिमुहूर्ताः शुद्धाः, शेषास्तिष्ठन्ति षट्षष्टिर्मुहूर्ताः, अष्टाचत्वारिंशतश्च षड्भिरहोरात्रैरश्लेषा शुद्धा, स्थिता पश्चात् द्विचत्वारिंशत्, षट्षष्टेश्च मुहूर्तेभ्य एकविंशतिः शुद्धा, स्थिताः पश्चात्पञ्चचत्वारिंशन्मुहूर्ताः, ततो द्विचत्वारिंशतोऽहोरात्रेभ्यस्त्रयोदशभिर्मघा शुद्धा, स्थिता एकोनत्रिंशत्, पञ्चचत्वारिंशतो द्वादश मुहूर्ताः शुद्धाः स्थिताः शेषास्त्रयत्रिंशत्, तत एकोनत्रिंशतस्त्रयो दशभिरहोरात्रैः शुद्धा फाल्गुनी स्थिताः पश्चात्षोडश, त्रयस्त्रिंशतो द्वादश मुहूर्ताः शुद्धाः, स्थिता पश्चादेकविंशतिः, आगतं चतुर्थं पर्व उत्तरफाल्गुनीनक्षत्रस्य षोडशदिवसस्यैकविंशतिमुहूर्तान् एकस्य मुहूर्तस्य त्रिंशतमेकत्रिंशद्भागान् भुक्त्वा समाप्तिं गतमिति । एवं शेषेष्वपि पर्वसु सूर्यनक्षत्रं परिभावनीयं, नवरं यावदुत्तरफाल्गुनीनक्षत्रं न शुध्यति तावत्पुष्यसत्कं शोधनकं शोधयित्वा पश्चादेकैकं नक्षत्रं शोधनीयम्, उत्तराफाल्गुनीनक्षत्रशुद्धौ गाथोक्तं शोधनकं शोधयितव्यम्, एवमन्यदपि व्यर्द्धक्षेत्रं यावन्न शुद्ध्यति तावदेकैकं शोध्यं, द्वर्यद्धक्षेत्रनक्षत्रशुद्धौ च तत्तत्करणगाथोक्तं शोधनकं शोधनीयं, त्रिभिश्च षट्षष्ट्यधिकैः शतैरेकस्मिन् सूर्यनक्षत्रपर्याये शुद्धे भूयः पुष्यादिक्रमेण यथायोगं शोधनकं शोध्यं, ततः सप्तभिः शतैर्द्वात्रिंशदधिकैः द्वितीये सूर्यनक्षत्रपर्याये शुद्ध पुनरपि पुष्यादिक मुक्तक्रमेण यथासम्भवं तावच्छोधनीयं यावदुत्तराषाढानक्षत्रम्, एतावता च युगाद्धं भवति,