________________
३८३
अधिकार ओगणीसमो - अमावस्या-पूर्णिमा-चन्द्रनक्षत्रयोग
ટીકાર્થ : ઇચ્છિત પર્વને ધ્રુવરાશિથી ગુણવા તેમાંથી અયનના પ્રસ્તાવમાં જણાવેલ सूर्यनक्षत्र ४२९॥ ॥ २थी पुष्य नक्षत्री- यथा34. शोधन ४२. ॥ ३४८ ॥ त्यां પુષ્યાદિના શોધનકને બતાવનારી પૂર્વે કહેલી ગાથાઓ જ સુખબોધ માટે ફરીથી કહે છે
चउवीसं च महत्ता अद्वैव य केवला अहोरत्ता । पूसविलग्गे एयं एत्तो वोच्छामि सेसाणं ॥ ३४९ ॥ बावट्ठि अहोरत्ता बारस य मुहुत्त उत्तराफग्गू । सोलससयं विसाहा वीसुंदेवा य तेसीयं ॥ ३५० ॥ बे चउपण्णा छच्चेव मुहुत्ता उत्तरा य पुटुवया । तिण्णेव एकवीसा छच्च मुहुत्ता उ रोहिणिया ॥ ३५१ ॥ तिन्नेगट्ठा बारस य मुहुत्ता सोहणं पुणव्वसुणो ।
तिन्नेव उ छावट्ठा पुस्सस्स उ होइ सोहणगं ॥ ३५२ ॥ चतुर्विंशतिर्मुहूर्ता अष्टौ च केवला:-परिपूर्णा अहोरात्राः एतत् 'पुष्यविलग्नं' संवत्सरादिसत्कपुष्यांशविषयं शोधनकम्, अत ऊर्ध्वं शेषाणां नक्षत्राणां शोधनकं वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति- 'बावट्ठी' त्यादि, द्वाषष्टिरहोरात्रा द्वादश च मुहूर्ता उत्तराफल्गुन्य:किमुक्तं भवति ? यदि द्वाषष्टिरहोरात्रा द्वादश मुहूर्ताः शोधिमायान्ति ततः पुष्यादीन्युत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि द्रष्टव्यानि, एवमुत्तरत्रापि भावना भावनीया । तथा 'षोडशं' षोडशाधिकं शतं चेत् शुध्यति ततो विशाखान्तानि नक्षत्राणि शुध्यन्तीत्यर्थः, तथा 'त्र्यशीतं' त्र्यशीत्यधिकं शतं विष्वग्देवा-उत्तराषाढा, द्वे शते चतुष्पंचाशदधिके दिनानां षट् मुहुर्ता इति 'उत्तराप्रोष्ठपदा' उत्तराभद्रपदाः, त्रीणि शतान्येकविंशत्यधिकानि दिनानां षट् च मुहूर्ता रोहिणी, त्रीणि शतान्येकषष्ट्यधिकानि दिनानां द्वादश च मुहूर्ता इति शोधनकं 'पुनर्वसोः' पुनर्वसुनक्षत्रस्य, त्रीणि शतानि षट्षष्टानि-षट्षष्ट्यधिकानि 'पुष्यस्य' पुष्यांशपर्यन्तस्य संवत्सरपूरकस्यैकस्य नक्षत्रपर्याय (स्य)शोधनकं ॥ तदेवमुक्तं करणं, सम्प्रति करणभावना क्रियते कोऽपि पृच्छति-द्वितीयं पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तमिति ? तत्र ध्रुवराशिश्चतुर्दश दिवसा द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रयोविंशतिरेकत्रिंशद्भागा इत्येवंरूपो ध्रियते, धृत्वा च द्वाभ्यां गुण्यते, जाता अष्टाविंशतिदिवसाश्चतुश्चत्वारिंशन्मुहूर्ताः षट्चत्वारिंशदेकत्रिंशद्भागाः इत्येवंरूपो ध्रियते, धृत्वा च द्वाभ्यां गुण्यते, जाता अष्टाविंशति