________________
३३२
सूरस्समुत्तगई दिवससद्वेण होइ अब्भत्था । तेत्तियमित्ते दीसति तर्हि तर्हि मंडले सूरो ॥ ३०३ ॥
ज्योतिष्करण्डकम्
[इह दिवसो] यावन्मात्रो भवति तावत्प्रमाणे क्षेत्रे व्यवस्थिते तस्मिन् मण्डले सूर्यो दृश्यते-दृष्टिपथप्राप्तो भवति, यथा सर्वाभ्यन्तरे मण्डले वर्त्तमानस्य सूर्यस्य मुहूर्त्तगतिर्द्विपंचाशद्योजनशतानि एकपंचाशदधिकानि एकोनत्रिंशच्च षष्टिभागा योजनस्य ५२५१ - २९/६० सर्वाभ्यन्तरे च मण्डले वर्त्तमाने सूर्ये दिवसः अष्टादशमुहूर्त्तप्रमाणः ततस्तेषामर्द्धे लब्धा नव मुहूर्त्तास्तैरनन्तरोक्ता मुहूर्त्तगतिर्गुण्यते, जातानि सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य, एतावति क्षेत्रे व्यवस्थितः सर्वाभ्यन्तरे मण्डले सूर्यश्चक्षुःस्पर्शमुपैति, एवं द्वितीयादिष्वपि मण्डलेषु चक्षुः स्पर्शगोचरतापरिमाणं तावभिधातव्यं यावत्सर्वबाह्यमण्डलं, तस्मिश्च सर्वबाह्ये मण्डले मुहूर्त्तगतिः पंच योजनसहस्राणि त्रीणि शतानि पंचोत्तराणि पंचदश च षष्टिभागा योजनस्य ५३०५ - १५/६० तदानीं च दिवसो द्वादशमुहूर्त्तप्रमाणस्तेषामर्द्धेन षड् मुहूर्त्तास्तैरनन्तरोक्ता मुहूर्त्तगतिर्गुण्यते, जातान्येकत्रिंशत्सहस्राण्यष्टौ शतान्येकत्रिंशदधिकानि त्रिंशच्च षष्टिभागा योजनस्य ३१८३१-३०।६०, एतावति क्षेत्रे व्यवस्थितः सर्वबाह्ये मण्डले सूर्यः चक्षुःस्पर्शमधिगच्छतीति ॥ ३०३ ॥
सा चेव मुहुत्तगई गुणिया दिवसेण होइ पुण्णेण । सो आयवविक्खंभो तर्हि तर्हि मण्डले रविणो ॥ ३०४ ॥
‘सैव' अनन्तरोक्ता मण्डलमण्डलमुहूर्त्तगतिः 'पूर्णेन दिवसेन' दिवसगतमुहूर्त्तराशिना गुणिता सती यावत्प्रमाणा भवति तावत्प्रमाणस्तत्र तत्र मण्डले 'रवेः' सूर्यस्य तापक्षेत्रस्य विष्कम्भः तथा (हि-) सर्वाभ्यन्तरे मण्डले मुहूर्त्तगतिः पंच योजनसहस्राणि द्वे शते एकपंचाशदधिके एकोनत्रिंशच्च षष्टिभागा योजनस्य ५२५१ - २९/६० सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहूर्त्तप्रमाणस्ततोऽष्टादशभिरनन्तरोक्ता मुहूर्त्तगतिर्गुण्यते, जातानि चतुर्नवतिसहस्राणि पंच शतानि षड्विंशत्यधिकानि द्विचत्वारिंशच्च द्वाषष्टिभागा योजनस्य ९४५२६४२।६२, एतावान् सर्वाभ्यन्तरे मण्डले तापक्षेत्रविष्कम्भः, एवं द्वितीयादिष्वपि मण्डलेषु तापक्षेत्रविष्कम्भपरिमाणमुक्तप्रकारेण तावत्परिभावनीयं यावत्सर्वबाह्यमण्डलं, तस्मिंश्च
१. ' तत्तियमित्ता (दिट्ठी बिगुणं दिवसय्यमाणं तु) मु. 'तत्तियमेत्ते दिवसेहिं दिसत्ते मंडले सूरो' इति
जे० खं० ।