________________
१९०
ज्योतिष्करण्डकम्
षष्टिभागैर्हीनत्वात्, संप्रति द्वितीयात् चन्द्रमसो मण्डलात् यावत्परिमाणं सूर्यमण्डलमभ्यन्तरं प्रविष्टं तावत् प्रतिपादयति- एक्कारस एगट्ठी कला उ चत्तारि सत्तभागा य । एयं अब्भंतरयं रविणो ससिमंडला बीया ॥ २०५A ॥
द्वितीयात्तु शशिमण्डलात् एतावत्प्रमाणमभ्यन्तरं रवे:-सूर्यस्य मण्डलं प्रविष्टं यदुत एकादश एकषष्टिकला-एकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तथाहि-द्वयोश्चन्द्रमण्डलयोरन्तरं पंचत्रिंशत् योजनानि त्रिंशच्चैकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनान्येकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनास्त्रिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातान्येकविंशतिः शतानि पंचषष्ट्यधिकानि २१६५, सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टिभागाः योजनस्य, तत्र द्वे योजने एकषष्ट्या गुण्येते, जातं द्वाविंशं शतं १२२, तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतं १७०, तेन पूर्वराशेर्भागो हियते, लब्धा द्वादश, एतावन्तोऽपान्तराले सूर्यमार्गा भवन्ति, शेषं तिष्ठति पंचविंशं शतं १२५, तत्र द्वाविंशेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे, शेषास्तिष्ठन्तित्रय एकषष्टिभागा एकस्य एकषष्टिभागस्य च सत्काश्चत्वारः सप्तभागाः येऽपि च प्रथमे चन्द्रमण्डले रविमण्डलात् शेषा अष्टावेकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्त इति जाता एकादशैकषष्टिभागाः, द्वादशाच्च सूर्यमण्डलात्परतो योजनद्वयातिक्रमे सूर्यमण्डलमत आगच्छति द्वितीयाच्चन्द्रमण्डलादभ्यन्तरप्रविष्टं सूर्यमण्डलमेकादशैकषष्टिभागा एकस्य चैकषष्टिभागस्य सप्तधाछित्रस्य सत्काश्चत्वारो भागा इति ॥ २०४ ॥ साम्प्रतं शेषेषु द्वितीयादिषु चन्द्रमण्डलेषु यावत्प्रमाणं सूर्यमण्डलादभ्यन्तरं प्रविष्टं तावत्परिमाणप्रतिपादनार्थं करणमाह
ગાથાર્થ - ચંદ્ર કે સૂર્ય અયનમાં જેટલું તિર્યક્ષેત્ર પસાર કરે છે તે પાંચસો દશ યોજન છે જ્યાં માંડલાઓ હોય છે.
ટીકાર્થ :- જે ક્ષેત્રને ચંદ્ર અથવા સૂર્ય એક અયનમાં તિર્થગ પસાર કરે છે અર્થાત જ્યાં ચંદ્રના કે સૂર્યના મંડલો હોય છે તે ક્ષેત્રનું પરિમાણ ૫૧૦ યોજન છે. પરંતુ ચંદ્રને આશ્રયીને તે ભાગ વડે ન્યૂન છે તે આમ, એક અયનમાં સૂર્યના ૧૮૩ વિકંપો હોય છે. એક-એક સૂર્યવિકંપનું પરિમાણ ૬૧ ભાગ રૂપ ૧૭૦ ભાગ છે. જે છે. તેથી १. हीनत्वात्, ततो द्वितीयाच्चन्द्रमण्डलादर्वागपान्तराले द्वादश सूर्यमार्गाः -मु. ॥