________________
अधिकार दसमो - मंडल विभाग
१८९ "सूरस्स पंचजोयणसया दसाहिया कट्ठा, सच्चेव अट्ठहिँ एकट्ठिभागेहिं ऊणिया चंदकट्ठा हवइ" इति ॥ २०३ ॥ सम्प्रति काष्टादर्शनतो विकम्पानयनार्थं करणमाह
सगमंडलेहिं लद्धं सगकट्ठाओ हवंति सविकम्पा ।
जं सगविक्खंभजुया हवंति सगमंडलंतरिया ॥ २०४ ॥ चन्द्रमसः सूर्यस्य वा विकम्पाः, कथम्भूतास्ते ? इत्याह-'स्वकविष्कम्भयुताः स्वकमण्डलान्तरिकाः' स्वस्वमण्डलविष्कम्भसहितस्वस्वमण्डलान्तरिकारूपा इत्यर्थः, भवन्ति ते स्वकाष्टातः, प्राकृतत्वात् षष्ट्यर्थे पंचमी, स्वस्वविकम्पयोग्यक्षेत्रपरिमाणस्य स्वकमण्डलैः-स्वस्वमण्डलसंख्यया भागे हृते यल्लब्धं तावत्प्रमाणास्ते स्वस्वविकम्पा भवन्ति, तथाहि-सूर्यविकम्पस्य क्षेत्रकाष्टा पंच योजनशतानि दशोत्तराणि ५१०, तान्येक षष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, जातान्येकत्रिंशत्सहस्राणि शतमेकं दशोत्तरं ३१११०, सूर्यस्य मण्डलानि त्र्यशीत्यधिकं शतं १८३, ततो योजनानयनार्थं त्र्यशीत्यधिकं मण्डलशतमेकषष्ट्या गुण्यते, जातान्येकादश सहस्राणि शतमेकं त्रिषष्ट्यधिकं १११६३, एतेन पूर्वराशेर्भागो हियते, लब्धे द्वे योजने, शेषमुपरिष्टादुद्धरति सप्ताशीतिशतानि चतुरशीत्यधिकानि ८७८४, ततः सम्प्रत्येकषष्टिभागा आनेतव्या इत्यधस्ताच्छेदराशिस्त्र्यशीत्यधिकं शतं ध्रियते १८३, तेन भागे हृते लब्धा अष्टाचत्वारिंशदेकषष्टिभागाः, एतावत्परिमाणमेकैकस्य सूर्यविकम्पस्य । तथा चन्द्रस्य तिर्यक्क्षेत्रकाष्टा पञ्च योजनशतानि नवोत्तराणि त्रिपञ्चाशच्चैकषष्टिमागा योजनस्य ५०९-५३-६१, तत्र योजनान्येकषष्टिभागकर-णार्थमेकषष्ट्या गुण्यन्ते, जातान्येकत्रिंशत्सहस्राण्येकोनपंचाशदधिकानि ३१०४९, तत उपरितनास्त्रिपंचाशदेक षष्टिभागाः प्रक्षिप्यन्ते, जातान्येकत्रिंशत्सहस्राणि शतमेकं व्युत्तरं ३११०२, चन्द्रस्य मण्डलानि सर्वबाह्यान्मण्डलादर्वाक् चतुर्दश १४, ततो योजनानयनार्थ चतुर्दशैकषष्ट्या गुण्यन्ते, जातानि अष्टौ शतानि चतुष्पंचाशदधिकानि ८५४, तैः पूर्वराशेर्भागो ह्रियते, लब्धानि षट्त्रिंशद्योजनानि ३६, शेषाणि तिष्ठन्ति त्रीणि शतान्यष्टापंचाशदधिकानि ३५८, अत ऊर्ध्वमेकषष्टिभागा आनेतव्याः ततश्चतुर्दशरूपोऽधस्ताच्छेदराशिः १४, तेन भागे हते लब्धाः पंचविंशतिरेकषष्टिभागाः २५, शेषाणि तिष्ठन्त्यष्टौ, ते सप्तभागकरणार्थं सप्तभिर्गुण्यन्ते, जातानि षट्पंचाशत् ५६, तस्याश्चतुर्दशभिर्भागे हृते लब्धाश्चत्वारः सप्तभागाः, एतावत्परिमाण एकैकश्चन्द्रविकम्प इति । इह सर्वाभ्यन्तरं सूर्यमण्डलं सर्वात्मना प्रविष्टं, केवलमष्टावेकषष्टिभागाश्चन्द्रमण्डलस्य बहिः शेषा वर्तन्ते, चन्द्रमण्डलात् सूर्यमण्डलस्याष्टाभिरेक