________________
१४२
ज्योतिष्करण्डकम्
द्वयर्द्धक्षेत्रपर्यन्तभावसूचकानित्यर्थः तथाहि पंचकं श्रवणादारभ्योत्तरभद्रपदारूपद्व्यर्द्धक्षेत्रपर्यन्तसूचकः, दशको रोहिणीरूपद्व्यर्द्धक्षेत्रसीमासूचकः, त्रयोदशकः पुनर्वसुरूपद्वयर्द्धक्षेत्रपर्यन्तख्यापकः, अष्टादशक उत्तरफाल्गुनीरूपद्वयर्द्धक्षेत्रसीमापरिज्ञापको, द्वाविंशतिः विशाखारूपव्यर्धक्षेत्रावधिसूचिका, सप्तविंशतिः समस्तनक्षत्रमण्डलसमाप्तिसूचिका, उत्तराषाढारूपद्वयर्धक्षेत्रसीमासूचिकेत्यर्थः, शोधितेषु चामूषु तदुपरितनेषु च नक्षत्रेषु यच्छेषमवतिष्ठते तदादानं नक्षत्रं ज्ञातव्यं, यच्चोपरिष्टाच्छेषमस्ति तत् त्रिंशता गुणयित्वा तस्य सप्तषष्ट्या भागे हृते ये लब्धास्ते मुहूर्त्ता ज्ञातव्याः, तत्राप्यवशेषांशा मुहूर्तस्य सप्तषष्टिभागा अवसेया इति करणगाथाक्षरार्थः । सम्प्रति भावना क्रियते युगस्य प्रथमे संवत्सरे दशसु पर्वसु गतेषु पंचम्यां केन नक्षत्रेण सह यु (यो ) क्तव्यमिति जिज्ञासायां पर्वसंख्या दशको ध्रियते, ते च दश पंचदशभिर्गुण्यन्ते, जातं पंचाशदधिकं शतं १५०, पंचम्यां च नक्षत्रेण सह चन्द्रस्य योगो ज्ञातुमिष्ट इति दशानां पर्वणामुपरि चतस्त्रस्तिथयोऽतिक्रान्तास्ताः प्रक्षिप्यन्ते, जातं चतुष्पंचाशदधिकं शतं १५४, दर्शसु पर्वसु द्वाववमरात्रौ ततस्तौ तस्मात्पात्येते, जातं द्विपंचाशदधिकं शतं १५२, तस्य द्वयशीत्या भागो हियते, लब्धमेकं रूपं, तत् उपरि न्यस्यते, न्यस्य च चतुर्भिर्गुण्यते, जाताश्चत्वारः ४ शेषं चाधस्तादुद्धरति सप्ततिः, तत्रोपरितनो राशिः स्तोकत्वादेकविंशतिरूपं शोधनं न सहते, ततः सप्ततेरेकं रूपं गृहीत्वा सप्तषष्टिषण्डीक्रियते, ते च सप्तषष्टिभागा उपरितनराशिमध्ये प्रक्षिप्यन्ते, जात उपरितनो राशिरेकसप्ततिः, अधस्ताच्चैकोनसप्ततिः, तत उपरितनराशेरभिजित एकविंशतिः शोध्यते, अधस्तनराशेश्च नक्षत्रमण्डलं सप्तविंशतिः, तत उपरि पञ्चाशज्जाताः ५०, अधस्ताद् द्विचत्वारिंशज्जाताः ततः पुनरप्युपरितनराशेरेकविंशतिः शुद्धा, अधस्ताच्च सप्तविंशतिः, तत उपर्युकोनत्रिंशत् २९ जाता अधस्तात् पंचदश १५, ततो भूयोऽप्युपरितनराशेरभिजित एकविंशतिः शोध्यते, अधस्ताच्च पंचदशतः त्रयोदशकमंकस्थानं पुनर्वसु नक्षत्रपर्यन्तसूचकमत: पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि शेषौ द्वौ तिष्ठतः, ताभ्यां द्वे नक्षत्रे शुद्धे,
१. बहुषु पुस्तकेषु अवमरात्रपातनमत्र न कृतं, ततः पुरतः सर्वत्राद्वयवृद्धिः यावत् चत्वारि नक्षत्राणि शुद्धयन्ति - पुष्योऽश्लेषा मघा पूर्वाफाल्गुनी चेति नक्षत्रचतुष्कशुद्धिः उत्तराफाल्गुन्या अष्टादशमुहूर्त्तादिषु सूर्योदय इति संपन्नं, परं तन्न युक्तिसहं न च सूत्रानुकूलमिति तदुपेक्ष्य क्वचित्कोऽप्ययं पाठोऽत्र धृतः । एष पाठः ताडपत्रे वर्तते इति पु. प्रे. पार्श्व भागे निर्दिष्ट मस्ति । २. शेषाश्चत्वारस्तिष्ठन्ति, तेभ्यश्चत्वारि नक्षत्राणि शुद्धानि, तद्यथापुष्यः अश्लेषा मघा पूर्वफाल्गुनी च, अश्लेषा नक्षत्रं च द्व्यर्द्धक्षेत्रमिति तद्गताः पञ्चदश मुहूर्त्ताः शुद्धाः, पञ्चदश तिष्ठन्ति, उपरि च तिष्ठन्त्यष्टौ - J ॥ अत्र स्थाने यदि अवमरात्रपातनं न क्रीयते तदा एष अव पाठो ग्राह्यः, अन्यथा तु उक्त पाठ एवोचितो भासते ॥
-